________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
पंचलिंगी
बृहद्धृत्तिः १लि.
॥५३॥
PRASACAROSAROUGUSARAGAOS
चरचर्याविहारित्वेनाप्रतिबद्धतया क्षीणजङ्घाबलत्वादिनिमित्तेन नित्यवासासेवने तदृष्टान्तावष्टम्भेन साम्प्रतिकानां जानिकानामपि प्रतिबन्धेन तदभ्युपगमः सुखलाम्पट्यादेव, यथोक्तम्-"उमे सीसपवासं अप्पडिबंधं अजंगमत्तं च । न गणिति एगखित्ते गणिति वासं निययवासी ॥१॥" तथा वैरस्वामिनोऽपि चैत्यार्थे पुष्पाद्याहरणं कुतीथिकापभ्राजना खतीर्थप्रभावनाद्यर्थमत आधुनिकानां निःशूकतया पूजाव्याजेन तत्परिग्रहो महाव्रतनिरपेक्षतां व्यनक्ति यदाह-"ओभावणं परेसिं सतित्थ उब्भावणं व वच्छल्लं । न गणिति गणेमाणा पुन्चुचियपुप्फमहिमं च ॥१॥" तथा अण्णिकापुत्राचार्यस्यापि पुष्पचूलानीताशनाद्युपभोगः वयं विचरितुमशक्ततया |ऽत इदानींतनानां बलिष्टानामपि साध्वीलाभग्रहणाग्रहो गृद्धानां तदनुरागितां च सूचयति तदुक्तम्-"गयसीसगणं उमे भिक्खायरिया अपवलं थेरं । न गणिति विसहाविसढा अज्जियलाभं गवसंता ॥१॥" तथा राज्यदशायां शीतलरूक्षाद्याहारापरि
शीलनेन तदसहिष्णुतयोदायनमुनेरपि क्षीराद्युपयोगो न गृध्रतयाऽतोऽधुनातनानां नीरुजां पुष्टानामपि नित्यतद्भोगो रसनालौल्यं त स्फुटयति, आह च-"सीयललुक्खाणुवियं वएसु विगईगएण जाचितं । हट्टावि भणंति सढा किमासि उद्दायणो न मुणी ॥१॥" | तदेवमियमनाचरणैव भूयसामपवादपदस्थैर्योत्पादकत्वेनातिविरुद्धत्वात् तदाह-"जे जत्थ जया जइया बहुस्सुयाचरणकरणपन्भट्ठा। जंते समाचरंती आलंबणमंदसद्धाणं ॥१॥" मुग्धप्रतारणं चातीवव्रतिनां दुष्टम् "ऋणे व्याजो धने व्याजो व्याजः पुत्रकलत्रयोः। सर्वत्र विद्यते व्याजो धर्मे व्याजो न विद्यते ॥१॥” इतिवचनात् , तस्माद्युक्तमुक्तं, 'सढयाए समाइन्नं एयंति, तदेवं गृहिदिग्बन्धादिकमसहं साक्षादभिधाय शेषमतिदिशन्नाह–'अन्नं चेति न केवलमेतदेव, किं तर्हि ! 'अन्यच्च' अपरमपि गीतैर्गीताथैः प्रमादबाहुल्यकालादिदोषादागमोक्तमपि 'प्रतिषिद्ध' निवारित, यतीनां सम्प्रति मासकल्पविहारात्मादिप्रमाणकल्पधारणपटलादि
॥५३॥
For Private and Personal Use Only