SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वचिः ॥५२॥ SCARSESAMAGRA सढयाए समाइन्नं एयं अन्नं च गीयपडिसिद्धं । तत्तं सज्जाणतबहुमाणा उ असग्गहो होइ ॥१२॥ व्याख्या-गृहिणां-श्रावकाणां, दिश्यते-ज्ञाप्यते अनया दिक् आचार्यादिः, व्यपदिश्यते ह्याचार्यादिना अस्थाचार्यायं गच्छोऽयं | शिष्य इत्यादि तया तस्या वा बन्ध आचार्याद्यायत्ततापादनेनात्मनो निवेदनं, तं विहाय निष्कारणं गच्छान्तरेखूपसम्पदुपादानपरिहार इत्यर्थः, एष च सूत्रे साधुसाध्वीरुद्दिश्याभिहितः, न तु गृहिणोऽतो गृहिणां दिग्बन्धविधानमसद्हो भवतीति द्वितीयगाथान्तेन 8 योगः, 'तथेति' समुच्चये 'आभवन्तः' आभजनीया आयूर्वस्य भवतेराभागार्थत्वात् , ततश्चाभाव्यव्यवस्थाया नियतविषयतयैवाभिधानाद्वस्तुनोऽनाभवताम् अनाभजनीयानामपि पारम्पर्येणासद्गच्छप्रतिबद्धा एतेऽस्माकमेवैते आभाव्याः, असभ्यमेवामीषां पुत्रवस्त्रपात्रादिगुरुबुद्ध्या दातुं कल्पते, नान्येभ्य इति व्यवस्थापि नाभाव्यखानां शुद्धदेशकतया धार्मिकतया च गुरुखेनाभ्युपेतसुविहितानां श्रावकाणामपहरणं राजदण्डादिभयदर्शनेन सुविहितेभ्य आकर्षणं सर्वथा तेषां तत्पाद्ये व्रतादिवारणमित्यर्थः, 'मत्सरो' द्वेषः, गुणिषु रत्नत्रयपवित्रेषु सुविहितेषु, तीर्थकरगणधरादिविरहे हि सम्प्रति सङ्घ एव सकलसाधुश्रावकादिव्यवस्थाकरणपटीयान् , स एव च भगवन्नमसनीयत्वादाराध्यः सर्वेषामिति, प्रायो जैनमतानुगामुकास्तमेव पूजयन्ति, एते त्वात्ममन्यास्तमप्यवमन्यन्त इति सङ्घबाह्यत्वादेतेषां तिरस्कार एव श्रेयानिति, अपवादपदानामसंयमहेतुतया निषिद्धानां कारणेन यतनाविधेयतयादिष्टानां नित्यवासादीनां कादाचित्ककृत्यानाम् 'आलम्बनम्' अतिप्रमादितयाऽवष्टम्भनं, यदि घेतानि सर्वथा यतीनामकृत्यान्यभविष्यन् तदा कथं पूर्वसूरयोऽकरिष्यन् तस्मात्कृत्यान्येवामूनीति, सुखलोलतयाऽशक्तिख्यापनच्छद्मना मनसि सम्प्रधारणं, यथा समीचीन एव नित्यवासो मुनीनां सङ्गमस्थविराचार्यैस्तदासेवनात्, चैत्यपूजाऽपि सङ्गता वैर SAGAR ॥५२॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy