________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१॥" एवं च सावधिबेऽपि न विवादाध्यासितप्रत्याख्यानस्य साभिष्वङ्गता, तत्साधनायोपन्यस्तस्य भवद्धतोरनैकान्तिकखा-15 दिना निरासाद, तथा च स्वपक्षसिद्धये प्रयोगोऽपि दयते-विवादास्पदं सावधित्वेऽपि न साभिष्वङ्गं मुमुक्षुणाप्रमत्ततया विधी-1 | यमानत्वात , यदेवं तदेवं यथा कस्यचित्क्षपकयतेः श्राविकावितीर्णाधाकर्मिकपायसभोजनं तथा चेदं तस्मानचेति, नच भोजनस्य | निरभिष्वङ्गत्वानुपपच्या दृष्टान्तस्य साध्यविकलतेति वक्तव्यं, तथात्वे भुञ्जानस्यैव तस्य केवलज्ञानोत्पादश्रवणानुपपत्तेः, न च तथापि सावधित्वस्य साध्यभागस्यासिद्ध्या तस्य तद्विकलत्वमिति वाच्यं, यतिभोजनस्य प्रायः पौरुष्याद्यद्धाप्रत्याख्यानावच्छिन्नतया सावधिखस्याव्याघातात, तस्माद्यावजीवमित्येव साधु नत्वपरिमाणमिति ॥ इत्यादि विन्ध्यसाधुक्तं ते सर्वेऽप्यन्वमंसत | मात्रयाऽपि गुरोर्वाचामन्यथा ननुवादतः ॥६०॥ श्रुताब्धेः पारदृश्वानो गच्छान्तरगता अपि । तदा सदाशयाः पृष्ठा विन्ध्योक्तं प्रत्यति|ष्ठिपन् । ६१ ॥ मुग्धा दुग्धानना यूयं किं जानीध्वे ब्रवीम्यहम् । यत्तजिनोदितं नूनमित्यवादीत्ततः स तान् ॥६२॥ यदैवं मुहुरुक्तोऽपि नासौ तत्त्वं प्रपद्यते । सङ्घन देवतां हातुं कायोत्सर्गस्ततः कृतः॥ ६३॥ ततः सम्यगृगागत्य भक्त्या सङ्घ बभाण सा । आज्ञापयत किं कार्यं मयाऽथ स उवाच ताम् ॥ ६४॥ गच्छ देवि? विदेहेषु तत्र पृच्छ जिनेश्वरम् । यद् गोष्ठामाहिलो ब्रूते तत्किं तथ्यमुताखिलः ॥६५॥ सङ्घो दुईलिकापुष्पमित्रपूर्वो यदित्यथ । तयाऽवाचि न साचिव्यमृतेऽहं गन्तुमुत्सहे ।। ६६ ॥ युग्मम् ॥ कायोत्सर्ग ततोऽदत्त सङ्घः संहत्य रंहसा । गत्वा सा जिनमनाक्षीत् साक्षीकृत्य सभासदः॥६७॥ व्याजहार जिनेन्द्रो|ऽथ सङ्घः सम्यग्वदावदः । मिथ्याविवावदूकोऽन्यः सप्तमो ह्येष निह्नवः ।।६८॥ सङ्घः सुवादी वत कद्वदोऽन्य इत्युच्चकैः सा गिर
१ सम्यग्वदावदः, सम्यग्वता । २ कद्वदो गर्यवान् ॥
RASENEGA
For Private and Personal Use Only