________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
पंचलिंगी
बृद्धृतिः १ लि.
॥५०॥
CAAMA
PARRORRRRRR
मृकयतीनां माषतुषादीनां च प्रत्याख्यानाभावापत्तेः, तत्तद्धेतुभ्यस्तेषां व्यञ्जनोच्चाराभावात् , अविरतानामपि च गृहिणां कथञ्चित पइजीवनिकादिपाठात् तदुच्चारणेन प्रत्याख्यानापत्तेः, न द्वितीय, किं शश्वत्सावद्यमहं न सेविष्य इति तस्य परिणामः, आहो? कदाचिदिति, नाद्यः, शश्वन सेविष्य इति प्रतिज्ञाय भवान्तरे तत्सेवमानस्य प्रत्याख्यानभङ्गापातात् शश्वत्पदेन सर्वभवाक्षेपात् , न द्वितीयः,तत्रापि किं यथा परिणामस्तथा व्यञ्जनोच्चारणम् उतान्यथा? यद्याद्यस्तदा छद्मस्थावस्थायां मृतस्यावश्यम्भावी विरत्यभाव इति शङ्कया जीवन् सावध नसेविष्य इति तस्य परिणामस्तथा च यथा परिणाम यावज्जीवमिति व्यञ्जनोच्चारणे हटादायातं परिमाणवत्त्वम् , अथ जीवितावधि मे प्रत्याख्यानमिति तस्य परिणामोऽपरिमाणमिति च व्यञ्जनोच्चारणमिति द्वितीयः पक्षोऽभिमतस्तदा प्रत्यक्षमृषावादितापत्तिः, अन्यथा मनसि कृताऽन्यथोचारणेन वाङ्मनसविसंवादात् , यदाह महाभाष्यकार:-"जो पुण अव्वयमावं मुणमाणोवस्समाविणं मुणइ । वयमपरिमाणमेयं पच्चक्खं सो मुसावाई ॥१॥" न तृतीयः, तद्धि निष्कर्मतया प्रत्याख्यानपरिणामाभावेऽप्युपचारादन्तवृत्त्या तत्कार्यजीवरक्षादिकं वा स्यात् , लाभपूजादिकामनया विरतिपरिणामाभावेऽपि बहिवृत्त्या तत्कार्यकरणं वा, नियमाभावेऽपि ताग्विभवाद्यसम्पत्त्या भूमिशयनमलिनचेलखब्रह्मचर्यादिबाह्यतल्लिङ्गवत्त्वं वा, न प्रथमः, मुक्तानामपि चारित्रापत्तेः, आसंसारं तेष्वेव सम्पूर्णजीवरक्षादिदर्शनात् , नचैवमस्तिति वाच्यं “सिद्धे नो चारित्ति नो अचारित्ती" इत्याद्यागमेनोभयपक्षबहिर्भावेनैव तेषामभिधानात्, न द्वितीयः, अर्हन्मतवर्तिनामपि केषाश्चिन्मुनिव्यंसकानां लोभाद्यर्थमेव बाह्यवृत्त्या महाव्रतमौनाद्यवलम्बिनां प्रत्याख्यानप्रसङ्गात् , न तृतीयः, दुर्गतराजाद्यनुजीविनामपि यतिखापत्तेः, न चैतदसिद्धं प्रत्यक्षतस्तेषां तदुपलब्धेः,8 तथा च लौकिका अपि पठन्ति-"भूमीसयणं जरचीरधारणं बंभचेरियं भिक्खा । मुणिचरियं दुग्गयसेवयाण धम्मो परं नत्थि है
C
॥५०॥
HAR
For Private and Personal Use Only