SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी १ लि. ॥४९॥ RECORDGAGANESECRESS न द्वितीयः,सर्वस्य अपि यतिधर्मस्य मोक्षभवयोराशंसापरिहारेणैवाभिमतखात् , तदानीं च तस्य संवेगनिर्वेदाभ्यां तत्प्रतिपत्तेरीगाशंसाया असम्भवात, किञ्च-गृहिणामप्याशंसाया अतीचाररूपतया "इहलोए परलोए जीविय मरणे य आसंसपओगे।" इत्यादिना प्रतिषेधप्रतिपादनात, तथा च कथं यतिप्रत्याख्याने साशंसवं प्रसज्यमानं शोभेत, तत्प्रसञ्जने सर्वसामायिकरूपस्य यतिप्रत्याख्यानस्याप्यसि ध्या हेतोराश्रयासिद्ध्यापत्तेः, तथैकादशी प्रतिमांप्रतिपन्नस्य प्रविजिपोगृहिण इखरप्रत्याख्यानमपि न साभिष्वङ्गं निराशंसदीक्षाभि| मुखलेन तद्राहिणो निरभिष्वङ्गखात्, तथा च साध्यविकलो दृष्टान्तः, अपि च यतेरद्धाप्रत्याख्यानमस्ति न वा? अस्ति चेत्तदा पौरुष्यादिपदोपादानेन कालनियमात्परिमाणवत्त्वेन तस्यापि साभिष्वङ्गखप्रसङ्गः,न च भवतोऽपि तत्र तदिष्टं, तथा च भूयोऽप्यनैकान्तिको हेतुः, अथ प्रकृतप्रत्याख्यानवत्तत्रापि पौरुष्यादिपदोपादानमसङ्गतम् अपरिमाणतयैव तस्यापि मयेष्टखादिति चेत्, तर्हि दीक्षादिवसादारभ्यानशनप्रसङ्गः, तदपरिमाणवस्यैवमेव सम्भवात् , न चैवमस्तिति वाच्यं "परिवालिओ यदीहो परियाओवायणातहादिन्ना। निप्फाइयाय सीसा किं मज्झं संपयं जुत्तं ॥१॥" इत्यादिनाऽन्त्यसमय एव तत्प्रतिपत्तिश्रवणात् , अथ नास्ति यतेरद्धाप्रत्याख्यानमिति चेत् न 'अणागयमइकंत'मित्यादिना दशविधप्रत्याख्यानाभिधायकागमेन स्फुटमेव यतीनां तदभिधानात्, एवं चेदस्य निरभिष्वङ्गता, किमर्थं तर्हि यावज्जीवमिति पदेनावधिनिरूपणम् । प्रत्युतैतत्करणे संशयापतिः ? किं यावज्जीव आत्मावर्त्तते, उत यावत्प्राणान् धारयामि ? इति, अव्ययीभावणविधानाभ्यामुभयथापि यावज्जीवमिति रूपसिद्धेरिति चेत् न, आत्मनो नित्यखेन सर्वजन्मभाविखं मृतस्यावश्यभाविनं प्रत्याख्यानभङ्गं च जानतो जैनस्य यावज्जीव आत्मेत्यव्ययीभावानाश्रयणेन यावजीवामीति णम् विधानेनैव यावज्जीवमिति शब्दनिष्पत्तिनिश्चयात् , यच्चानेन पटेनावधिकरणं तत्प्रत्याख्यानभङ्गभयात् न तु प्रेत्य ॥४९॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy