________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्व परिमाणं विना कृतम् । प्रत्याख्यामि त्रिधा त्रैधमिति सम्यगिदं भवेत् ॥५५॥ विन्ध्यः प्राह किमर्थं नो परिमाणं विधीयते । आशंसापरिहारायेत्यभाषत स दोषदृक् ॥५६॥ यावजीवमितीयत्तोच्चाराद्यत्तेन संश्रुतम् । यथा प्राणान् हनिष्यामि समाप्ताववधेरिति ॥ ५७॥ इत्याक्षिप्तोऽपि नाक्षुभ्यद्विन्ध्यसाधुरवन्ध्यधीः । स्वादाजी भृत्य ओजस्वी व्यग्रः किं स्वामिसन्निधौ ॥ ५८॥ तेनोचेऽथ स ते बुद्धिः श्राद्धस्सेखरवन्मुनेः । यावजीवं प्रत्याख्यानं साकाङ्क्षमवधेर्भवेत् ।। ५९ ॥ तथा च प्रयोगः-मुनेर्यावज्जीवं सर्वसावधप्रत्याख्यानं, साभिष्वङ्गं, परिमाणवत्त्वात् , यदेवं तदेवं यथा गृहिणः सामायिकादीखरप्रत्याख्यानं, तथा चेदं तमातथा, न चायमसिद्धो हेतुः, यावजीवमिति पक्षभागश्रवणात्प्रकृतप्रत्याख्यानस्य परिमाणवत्त्वप्रतीतेरविसंवादादिति, अत्रोच्यतेअथ कोऽयमभिष्वङ्गः? किं रागमात्रम् ? आहो? गाढमिष्टविषयप्रसक्तिः? उताशंसा ? न प्रथमः, उपशान्तक्षीणमोहसयोग्या
दिगुणस्थानवर्तिनां परिमाणवत्सर्वसावधप्रत्याख्यानवत्वेऽप्यभिष्वङ्गाभावात् , मोहनीयोपशमादिना तेषां वीतरागखेन सिद्धान्ते दिप्रतिपादनात् , तस्य च तेषां भवतापि स्वीकारात् , तथा च तत्प्रत्याख्यानेनानैकान्तिको हेतुः, न द्वितीयः, तदानीं कृतप्रत्या
ख्यानखेन तदभावात् , भावे वा प्रत्याख्यानस्यैवाभावात् , उपभुज्यमानवस्तुविषयतयैव च तस्या लोके प्रतीतेने तूपभोक्ष्यमाणविषयतया, तथा चाश्रयासिद्धो हेतुः, सन्दिग्धसाध्यधर्मो हि धर्मी हेतोराश्रयः, अत्र तु विकल्पितसाध्यधर्माभावनिश्चयेन सन्देहाभावात् , नाश्रयता धर्मिणः, न तृतीयः, अथ केयमाशंसा? किमितः प्रत्याख्यानाद्देवो वाऽस्यां, सार्वभौमो वाऽस्यामित्यादिकामनारूपोऽध्यवसायः, अथ जन्मान्तरे सावधमहं सेविष्य इत्यादिरूपो वा ? नाद्यः प्रत्याख्यानप्रतिपत्तिकाले तदभावात् , केवलमोक्षार्थमेव तस्य तदानी प्रवृत्तेः, कथश्चिद्भावेऽपीदृक्कामनाया निदानरूपलेन मिथ्याखोदय एव जायमानतया चारित्रिणः प्रतिषेधात्,
For Private and Personal Use Only