SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | यतावयवगोचरखेऽपि कर्मणः सुखादिबाह्यनिमित्तशिरोमणेर्देहसर्वगतात्मवर्तितया सर्वदा सर्वसिन्नपि देहे सुखाद्यनुभवप्रसङ्गः केन वार्येत, न च कर्मणो बाह्यनिमित्तस्य सर्वगत्वेऽपि स्रगादिबाह्यनिमित्तान्तरस्य प्रतिनियतावयववर्तितया सुखाद्यनुभवप्रतिनियमो भविष्यतीति वाच्यम् , एवं हि कर्मकल्पनावैयर्थ्यात् स्रगादिभ्य एव तदनुभवप्रतिनियमोपपत्तेः, अस्माकं त्वात्मतादात्म्येन कर्मणोऽवस्थानाभ्युपगमादात्मवत्तस्योपादानकारणतुल्यता, नतु स्रगादिवदाहत्य निमित्तकारणता, तथा च तत्तच्चन्दनादिबाह्यनिमित्तसन्निकर्षप्रतिनियमन तत्तद्देहतदवयवेषु सुखाद्यनुभवोपपत्तेने भवत्पक्ष इव सर्वमिन्नपि देहे शश्वत्तदनुभवप्रसङ्गोऽवकाशमासादयति, श्रूयन्ते च सहकारिकारणप्रतिनियमेन कर्मणः कचित्कदाचिदुदयादयः, यदाह-"उदयक्खयक्खओवसमोवसमा जं च कम्मुणो भणिया । दवं खेत्तं कालं भवं च भावं च संपप्प ॥ १॥" त्ति, एवं च कथं साम्यापादनोल्लापो भवतः शोभा विभृयात् , तमाद्यत्किञ्चिदेतत् , अथ सञ्चरिष्णुशीलतया कर्मणो बहिर्वर्तिनोऽप्यन्तःसञ्चारादन्तरपि सुखाद्यनुभवो न विरुध्यत इति चेत्, न, अन्तः सञ्चारक्षणे बहिस्तदनुभवाभावापत्तेः, अथ युगपदुभयत्र सर्वदा तत्संचरतीतिचे| तन्न, वाद्यादेरिबैकस्य एकस्मिन्नेव क्षणे उभयत्र सञ्चारानुपपत्तेः, उपपत्तौ वा सञ्चारापरनाम्ना कर्मात्मनोस्तादात्म्यरूपो बन्ध एवोपपादितः स्यात् , नहि तयोस्तादृग्बन्धादन्यो युगपदुभयत्र सञ्चारो नाम, अपि च सञ्चारित्वाभ्युपगमे कर्मणः शरीरस्थ| वायोः प्राणादेरिव न प्रेत्यानुगमो भवेत् , यदुक्तम्-"न भवंतरमन्नेई सरीरसंचारओ तदनिलो व ।" न च तयोरैकात्म्ये ज्ञानात्म| नोरिवकदाचित्पृथग्भावानुपपच्या मुक्त्यभावप्रसङ्ग इति वाच्यं वह्नयादिसंयोगेन काश्चनतन्मृदोरिव प्रसङ्ग्यानादिप्रयोगेण तयोरपि पृथग्भावोपपत्तेः, काश्चनमृदोरपि स्पर्शमात्रमेवेति चेत् न, अग्यादिसम्प्रयोगात्पश्चादिव प्रागपि तयोः पृथगुपलम्भप्रसङ्गात् For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy