________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
.
१ लि
.
॥४७॥
तदपिन चारु, सहि कान्तरसञ्चयः प्राच्यजन्मनिर्वतितो वा स्यात् , आगामिभवनिर्वतितो वा निनिमित्तोवा, नाद्यः कम्मसहकतस्यैवात्मनः कर्मान्तरोत्पादनाभ्युपगमात्सहकारिणश्च प्राच्यभवकर्मणः केनचित्पुण्यकर्ममात्रेण शरीरमलस्येव जलमात्रेणोच्छे-13 दात् , एवमस्वीकारे वा सिद्धानामपि तदुत्पादनप्रसङ्गेन पुनर्भवापत्तेः, न द्वितीयः, आगामिभवस्थासत्त्वात्तनिवर्तितकान्तरसञ्चयस्याप्यभावेन पुनर्भवानुपपत्तेः, कान्तरसञ्चयादागामिभवसम्भवः तत्सम्भवे च कान्तरसञ्चय इति परस्पराश्रयप्रसङ्गाच्च, न तृतीयः, शशविषाणादेरप्युत्पादापत्तेः, अपि चान्तः-शरीरं सुखदुःखं संवेदनं निनिमित्तं सनिमित्तं वा ? आये मुक्तानामपि तत्संवेदनापातः, द्वितीयेऽपि किं स्रक्चन्दनाद्यहिकण्टकादिदृष्टनिमित्तमेव तत्संवेदनम् , उतादृष्टनिमित्तमेव तत्संवेदनम् उतारटनिमित्तमपि ? आधे स्रकण्टकादिजन्यबाह्यतत्संवेदनस्यापि दृष्टनिमित्तकखेनोपपत्तावदृष्टनिमित्तकखकल्पना वैयर्थ्यात् , अथ सर्वभावानामदृष्टनिमित्तकखस्य सकललोकानुभव सिद्धतया दुरपह्नवत्वेन तत्संवेदनस्य तन्निमित्तकत्वमप्यवश्यं कल्पत इति चेत्, एवं तर्हि | तददृष्टं यत्रैवावतिष्ठते तत्रैव तत्संवेदननिमित्तम्, अहो अन्यत्रापि, आद्यकल्पे भवन्मतेनात्मनो बहिःप्रदेश एव तदवतिष्ठत | इत्यतस्तत्संवेदनानुपपत्तिः, द्वितीयकल्पेऽपि बहिः स्थितेन कर्मणान्तस्तत्संवेदनजननाभ्युपगमे एकात्मव्यवस्थितेनापि तेनान्यत्रा| विशेषात्सर्वात्मस्वपि तत्संवेदनजननप्रसङ्गात , एवं च तुल्यकक्षतया सर्वेषां सुखाद्यनुभवापत्तिः, अथ येनैव तनिवर्तितं तस्यैव तत्तत्संवेदननिमित्तं नान्यस्येत्यतो नातिप्रसङ्ग इति चेत् , न, पादे मे सुखं शिरसि मे वेदनेत्यवयवप्रतिनियमेन सुखाद्यनुभवा-12 भावप्रसङ्गात्सर्वदेहविषय एव तदनुभवो भवेत् , भवतोऽपि समानमेतदिति चेत्, न, अभिप्रायापरिज्ञानात् , भवन्मते ह्यात्मब| हिर्देशवर्तित्वेन स्रक्चन्दनादिव कर्मणोऽपि सुखादिकं प्रति बाह्यनिमित्ततैव प्रसज्यते, तथा च स्रगादीनां कदाचित्प्रतिनि
ASASHARANASANCE
॥४७॥
For Private and Personal Use Only