________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बन्धः, अमाभिरप्युपनताभिः कर्मपरमाणुवर्गणाभिरात्मप्रदेशानां वहययस्पिण्डवत् परस्परं गाढानुवेधस्यैव बन्धवेनाभ्युप-- गमात्, तथा च साध्यविपर्ययसाधनाद्विरुद्धो हेतुः, क्षीरोदकयोः कदाचित्सितच्छदचञ्चपुटसंश्लेषाद्भविष्यत्पृथग्भावलेऽपि तादात्म्येन स्पर्शमात्रखासम्भवाद्धेतोर्विपक्षेऽपि गतखेनानैकान्तिकश्च, अपि च किं सर्वैरेवात्मभिः कर्मणो भविष्यत्पृथग्भावलं विवक्षितं कतिपयैर्वा, नाद्यः, अभव्यात्मभिः कर्मणस्तदसिद्धेः, तथा च भागासिद्धो हेतुः, न द्वितीयः, तदाहि भव्यपदेनात्म-18 नेति साध्यभागो विशेषणीयः, स्यादितरथा भागासिद्ध्यपरिहारात्, एवं च साध्यं विशिषतस्ते प्रतिज्ञान्तरनिग्रहस्थानापातः, खोक्तस्य परदूषितस्य साध्यभागस्य पूर्वानुक्ताविशेषणवतोऽभिधानं प्रतिज्ञान्तरमिति तल्लक्षणात् , एवं च नासाद्धेतोरेकैकजीवप्रदे-10 शपरिवेष्टनेन कर्मणः स्पृष्टमात्रतासिद्धिः, न द्वितीयः अनभ्युपगमात् , नोकेनैव कर्मणा सकलजीवप्रदेशप्रचयपरिवेष्टनमिति |8 जैनैरभ्युपेयते, प्रतिप्रदेशं पृथक पृथक्कर्मवर्गणाभिस्तैस्तद्वन्धस्वीकारात्, किश्चासिन्नपि पक्षे भिन्नदेशस्यैव कर्मणो ग्रहणापत्तेरपसिद्धान्तः, न तृतीयः, जीवप्रदेशानां सकम्मनिष्कम्मतया विरुद्धधम्मसंसर्गेण तदभिन्नात्मनो जीवस्यापि भेदप्रसङ्गात् न चैतदिष्टम् , अपि चात्मना कर्मणः स्पृष्टमात्रताभ्युपगमे शरीरमलस्येव कर्मणो यथा कथश्चित्पुण्यानुष्ठानमात्राद्वियोगेन प्रेत्या- नुवृत्तिर्न स्यात् , अयनसिद्धा च सर्वेषां मुक्तिर्भवेत् , निष्कर्मणामपि तदनभ्युपगमे वा मुक्तानामपि भूयः संसारप्रसवप्रसङ्गात् । अथ यथाऽऽत्मना स्पृष्टमात्रस्यापि शरीरस्य विगमे पुनर्भवः स्वीक्रियते, तथा कस्यचित्कर्मणो विगमेऽपि कान्तरसश्चयात् , पुनर्भवो भविष्यतीति चेत् ? न, आत्मशरीरयोः क्षीरनीरवदन्योन्यानुगमाभ्युपगमेन स्पृष्टमात्रतानङ्गीकारात्, तत्स्वीकारे वा-| नयोः पुरुषसम्बद्धस्तम्भस्येव शरीरस्याचैतन्येन शीतोष्णस्पर्शादिसंवेदनाभावापत्तेः, यदपि कान्तरसञ्चयात्पुनर्भवसमर्थनं
For Private and Personal Use Only