________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहद्वृत्तिः
पंचलिंगी कामिन्याः कञ्चको यथा ॥४८॥ आत्मनश्च पृथक्कर्म भवितेत्यनुमानतः । प्रसिध्यति स्पर्शमात्रं न बन्धो जीवकर्मणोः
|॥ ४९ ॥ तथा हि-कर्म, आत्मना स्पृष्टमात्र, ततो भाविपृथग्भावखात् । यद्यतो भाविपृथग्भावं तत्चेन स्पृष्टमात्रं यथा कच॥४६॥ | किना कञ्चकः । तथा चेदं तस्मात् तथेति, न चायमसिद्धो हेतुः ध्यानादिहेतुभ्यश्चेतनात् कर्मणां भविष्यतः पृथग्भावस्थो
भयवादिसिद्धेः ? अन्यथा सर्वेषां मुक्क्यभावप्रसङ्गात् आत्मन एकान्तिकात्यन्तिकसकलकर्मपृथग्भावस्यैव मुक्तिनाभ्युपगमादिति, अत्रोच्यते-कञ्चकवत्स्पृष्टमात्रता कर्मणः किमेकैकजीवप्रदेशपरिवेष्टनेन, आहो सकलजीवप्रदेशप्रचयपरिवेष्टनेन, कतिपयजीवप्रदेशपरिवेष्टनेन वा । न प्रथमः, तथाहि-किमिदं परिवेष्टनं किं वलयनं परिवेषेणेव सूर्यमण्डलस्य, उतावरणं वाससेव शरीरस्य, नाद्यः तदाहि सूर्यस्य परिवेषेणेव जीवस्य कर्मणा स्पर्शमात्रस्याप्यभावेन तनिवर्तितसुखदुःखाद्यनुभवस्याप्यभावापत्तेः, तथा च भवदभिमतस्याप्यसिद्धिः, न द्वितीयः, मूर्तेन मूर्तस्यैव मुख्यावरणसम्भवेन जीवस्यामूर्तस्य मूर्तेन कर्मणा तदसम्भवात् , कथश्चित्सम्भवे वा शरीरेणेव वाससः पृथग्देशस्यैव कर्मणो जीवेन ग्रहणापत्तेः, अस्लेवमिति चेन्न, अपसिद्धान्तात् , यत्राकाशदेशे यो जीवप्रदेशोऽवगाढस्तेन तद्देशावगाढमेव कर्म गृह्यत इति सिद्धान्तन्यायात्, यदाहुः शिवशर्माचार्याः-"एगपएसो गाढं सबपएसेहि कम्मुणो जोगं । गिण्हइ जहुत्तहेउ"मित्यादि । अत्र चाद्यपादस्थायमर्थः-एकस्मिन् प्रदेशेऽवगाढमेकप्रदेशावगाढं, यत्रैव जीवस्यात्मप्रदेशास्तत्रैव यदवगाढं तदेव गृह्णाति, न पुनरन्यत् आनीय गृह्णातीत्यर्थः, अथ यथा
कञ्चकी कञ्चकेन गाढं नियमितश्च मुख्यवृत्या वृतश्च तथा जीवप्रदेशानां कर्मपरमाणुभिर्मुख्यपरिवेष्टनावरणासम्भवेऽपि प्रतिहै प्रदेशं तैस्तथा नियमनात्कञ्चकिसाधर्म्यात् जीवः परिवेष्टितश्चावृतश्च गौणवृत्त्योच्यत, इति चेत् , एवं तर्हि सिद्धोऽसदभिमतो
AAGRAASARANG
For Private and Personal Use Only