________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CADAICODENESS
मूरिपदे नियुक्तः कः ? इत्यपृच्छद्यतीन् बहिः ॥ ३१ ॥ कुटादिदृष्टान्तमथो निशम्य दर्पोद्धतोऽसौ पृथगाश्रयेऽस्थात् । एयाय मृलावसथे स पश्चादभ्युत्थितस्तत्र च साधुरूपैः ॥ ३२ ॥ इहैवासध्वमिति प्रोक्तः साधुभिर्नेष्टवानसौ । अन्धानामिव न प्रेक्षा |दप्पिष्ठानां प्रसपति ॥ ३३ ॥ ततो व्युद्वाहयामास स्थिखा वालानसौ बहिः । पक्षिणामिव मूढानां स्वपक्षस्फोरणं महत् ॥३४॥ | सूरयो विदधतोऽर्थपौरुषी प्रेरिरंस्तमथ देशनाविधौ । त्वं दिशेत्यलपदीय॑या सल्लकुम्भसदृशो गुरुस्त्वयि ॥३५॥ तेषत्थितेषु खत्रीयो गुरोविन्ध्योऽन्वभाषत । कर्मप्रवादपूर्वोक्तं बन्धचेतनकर्मणोः ॥ ३६॥ आत्मनोऽस्ति त्रिधा कर्म बद्धं स्पृष्टं निकाचितम् । बद्धं यथाव सूचीनां भारः स्पृष्टं पुनर्यथा ॥ ३७॥ निरन्तरीकृता गाढं बद्धवा दवरकेण ताः । निकाचितं तापयिखा पिण्डितास्ताः कृशानुना ॥ ३८ ॥ एवं कर्मक्रमाजीवः स्वप्रदेशैः समं समैः । बध्नाति श्लथवन्धं प्राग द्वेषरागादिहेतुभिः ॥३९॥ अमुश्चस्तं परीणामं ततः स्पृशति तद्दृढम् । निकाचयति सङ्क्लेशोत्कर्षात्तत्सुतरां ततः ॥ ४० ॥ केवलं तद् संवेद्येन क्षिणोत्यनुपक्रमम् । एवं व्याख्यातमाकर्ण्य तमसौ प्रत्यषेधयत् ॥४१॥ विन्ध्य ? मैवमभिधा मुधासुधीरन्यथा ननु गुरोर्मया श्रुतम् । चेन्नि-| काचयति कर्म चेतनस्तर्हि मुक्तिविरहः प्रसज्यते ॥ ४२ ॥ शिष्याः प्रोचुः कथं तर्हि वध्यते कर्म गीयताम् । स प्राह शृणुता व्यग्राः खग्राहा म्लानमानसाः ॥ ४३ ॥ स्पृशन् कञ्चकिनं यद्वन्नूनं बध्नाति कञ्चकः । एवं कर्म स्पृशजीवं न बनीयादभेदतः। ॥४४॥ तादात्म्येन सबद्धश्चेत्कर्मणा ज्ञानवत्तदा । तस्य तद्विगमाभावान्न स्थानिवृतिसङ्गमः ॥४५॥ आकर्ण्य तद्वचो | विन्ध्यः संदिग्धों दातुमुत्तरम् । अप्रभुः प्रभुपार्श्वेऽथ जगाम प्रष्टुमुत्सुकः ॥ ४६ ॥ ततो जगदुराचायास्तस्यत्थं जल्पता मुनः ।। वर्त्ततेऽयमभिप्रायः प्रायस्तं शृणु सम्प्रति ॥४७॥ यत्पृथय भविता यस्मात्स्पृष्टमात्रं हि तेन तत् । कञ्चकप्रावृतस्तन्याः
ECRECORREARCCCCC
For Private and Personal Use Only