________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याये २ प्राज्ञिकम् ।
ऽसत्यां प्राप्तावभिभवो भवतीति । एवं सति यथा भेरीशब्दः कश्चित्तन्वीखनमभिभवति । एवमन्निकस्योपादानमिव दवीयस्थोपादानमपि तन्वीखनं नाभिभवेत् अमाप्त रविशेषात् तत्र कश्चिदेव भेया प्रणादितायां सर्वलोकेषु समानकालास्तन्त्रीखना न श्रूयेरन् इति ॥ नानाभूतेषु शब्दसन्नानेषु सत्सु श्रोत्रप्रत्यासत्तिभावेन कस्यचिच्छब्दस्य तीने ण मन्दस्वाभिभवो युक्त इति । कः पुनरयमभिभवो नाम पाह्यसमानजातीयग्रहणमभिभवः । यथोल्काप्रकाशस्य ग्रहणाहस्यादित्य प्रकाशे नेति ॥
न घटाभावसामान्यनित्यत्वात् नित्येष्वष्यनित्यवदुपचाराच्च ॥ १५॥
न खलु आदिमत्त्वादनित्यः शब्दः, क सात् व्यभिचारात् आदिमतः खलु घटाभावस्य दृष्टं नित्यत्वम्, कथमादिमान् कारण विभागेभ्यो हि घटो न भवति कथमस्य नित्यत्वं योऽसौ कारणविभागेभ्यो न भवति न तस्याभावो भावेन कदाचिनिवर्त्यत इति, यदप्यन्द्रियकत्वात् तदपि गभिचरति । ऐन्द्रियकञ्च सामान्य नित्यञ्चेति, यदपि कृतकवदुपचारादिति तदपि व्यभिचरति निस्येष्वनित्यवदुपचारो दृष्टः यथा हि भवति क्षय प्रदेश: कम्बलस्य प्रदेशः एवमाका शस्य प्रदेशः आत्मनः प्रदेश इति भवतीनि॥
तत्त्वभाक्तयोर्नानात्वविभागादव्यभिचारः ॥ १६॥
नित्यमित्यत्र किं तावत्तत्त्वम् । आत्मान्तरस्थानुत्पत्तिधर्मकस्थात्महा. नानु पत्तिनित्य त्वम् । तच्चाभावे नोपपद्यते, भात तु भवति यत्तवात्मा न महानासीत् यद्भूत्वा न भवति न जातु तत् पुनर्भवति तत्रानित्य इव नित्यो घटाभायो दूत्वर्ण पदार्थ इति, तत्व यथाजातीयकः शब्दो न तथा. जातीयकं कार्य किञ्चिनित्यं दृश्य त इत्यव्यभिचारः । यदपि सामान्यनित्यत्व दिति इन्द्रियप्रत्यासत्तिग्राह्यमैन्द्रिय कमिति ॥
For Private And Personal