________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
६८
न्यायदर्शनवात्स्यायनभावे
सन्तानानुमानविशेषणात् ॥ १७ ॥
नित्ये व्यभिचार इति प्रकृतम् । नेन्द्रियग्रहणसामर्थ्याच्छन्दस्यानित्यत्वं किन्त न्द्रियमत्यासत्तिग्राह्यत्वात् सन्तानानुमानं तेनानित्यत्वमिति यदपि नित्येष्वप्यनित्यत्ववदुपचारादिति न ||
कारणद्रव्यस्य प्रदेशशब्देनाभिधानान्नित्येष्वप्यव्यभिचार इति ॥१८॥
:
एवमाकाशप्रदेश श्रात्मप्रदेश इति नात्वाकाशात्मनोः कारणद्रव्य मभिधीयते यथा कृतकस्य, कथं ह्यविद्यमानमभिधीयते विद्यमानता च प्रमाणतोऽनुपलब्ध ेः किन्नर्हि तत्त्राभिधीयते संयोगस्याव्याप्यत्तित्वम् परिच्छिन्नेन द्रव्येणाकाशस्य संयोगो नाकाशं व्याप्नोति व्यव्याप्य वर्त्तत इति, तदस्य कृतकेन द्रव्येण सामान्यम् नह्यामलकयोः संयोग श्राश्रयं व्याप्रोति सामान्यक्कृता च भक्तिराकाशस्य प्रदेश इति । अनेनात्मप्रदेशो व्याख्यातः संयोगवन्च शब्दबुद्ध्यादीनामव्याप्यवृत्तित्वमिति । परीक्षिता च तीव्रमन्दता शब्दतत्त्व ं न भक्तिक्कतेति । कस्मात् पुनः सूत्रकारस्या निर्थे
लं न श्रूयत इति, शीलमिदं भगवतः सूत्रकारस्य बहुष्वधिकरणेषु हौ पच्चौ न व्यवस्थापयति तत्र शस्त्र सिद्धान्तात् तत्वावधारणं प्रतिपत्त - मर्हतीति मन्यते शास्त्रसिद्धान्तस्तु न्यायसमाख्यातमनुमतं बहुशाखमनुमानमिति । अथापि खल्विदमस्ति इदं नास्तीति कुत एतत् प्रतिपत्तव्यमिति प्रमाणत उपलब्धेरनुपलब्धेश्च ति । श्रविद्यमानस्तर्हि शब्दः ॥
प्रागुच्चारणाद्यनुपलब्ध रावरणाद्यनुपलब्धेश्च ॥२८॥
प्रागुच्चारणान्नास्ति शब्दः । कस्मात् | अनुपलब्धेः सतोऽनुपलब्धिरावणादिभ्य एतनोपपद्यत कस्मात् श्रावरणादीनामनुपलब्धिकारणानामग्रहणात् । अनेनावृतः शब्दो नोपलभ्यते सनिश्चेन्द्रियव्यवधा
For Private And Personal