________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्स्यायनभाष्ये ऽनुपपन्नः । नित्यत्वाद्धि शब्दः प्रमाण मिति अनित्यः स इति चेत् अविशेषवचनम् अनाप्तोपदेशो लौकिको न नित्य इति कारणं वाच्यमिति । यथानियोगञ्चार्थस्य प्रत्यायनान्नामधेयशब्दानां लोके प्रामाण्यम् नित्यत्वात्प्रामाण्यानुपपत्तिः । यत्रार्थे नामधेयशब्दो नियुज्यते लोके तस्य नियोगसामर्थ्यात् प्रत्यायको भवति न नित्यत्वात् मन्वन्तरयुगान्तरेषु चातीतानागतेषु सम्प्रदायभ्यासप्रयोगाविच्छे दो वेदानां नित्यत्वम् अाप्तप्रमाण्याच्च प्रामाण्यम् लौकिकेषु शब्देषु चैतत् समानमिति ॥
इति वात्स्यायनीये न्यायभाष्ये हितोयाध्यायस्याद्यमाह्निकम् ॥
अयथार्थः प्रमाणोद्देश इति मत्वाह ।
न चतुष्वमैतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात्॥१॥
न चत्वार्ये व प्रमाणानि, किन्तर्हि, ऐतिद्यमापत्ति: सम्भवोऽभाव इत्येतान्यपि प्रमाणानि, इति होचुरित्यनिर्दिष्ट प्रवल कम्प्रवाद पारम्प. य॑मैतिह्यम्, अर्यादापत्तिरपत्तिः आपत्तिः प्राप्तिः प्रसङ्गः। यत्राभिधीयमानेऽर्थे योऽन्योऽर्थ : प्ररुज्यते सोऽर्थापत्तिः । यथा मेघेष्वसत्स दृष्टिन भवतीति किमत्र प्रसज्यते सतत भवतीति । सम्भवो नाम अविनाभाविनोऽर्थस्य सत्ताग्रहणादन्यस्य सत्ताग्रहणम् । यथा द्रोणस्य सत्तापहणादाढ कस्य सत्तायहणम् अाढ कस्य सत्ताग्रहणात्मस्थखेति । अभावो विरोधी अभूतं भूतस्य, अविद्यमानं वर्षकर्म विद्यमानस्य वावधसंयोगस्य प्रतिपादकम् विधारके हि वाय्वभ्वसंयोगे गुरुत्वादपा पतनकर्म न भवतीति । सत्यमेतानि प्रमाणानि न त प्रमाणान्तराणि प्रमाणान्तरञ्च मन्यमानेन प्रतिषेधः उच्यते सोऽयम् ।
For Private And Personal