________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ आह्निकम्
मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामा
ण्यात् ॥ ६७ ॥
ટ
किं पुनरायुर्वेदस्य प्रामाण्यं यदायुर्वेदेनोपदिश्यते इदं कृष्टमधिगच्छति इदं बञ्जयित्वऽनिष्टं जहाति तस्यानुष्ठीयमानस्य तथाभावः सत्यार्थताऽविपर्य्ययः, मन्त्रपदानाञ्च विषभूताऽथनिप्रतिषेधार्थानां प्रयोगेऽर्थस्य तथाभावः एतत्प्रामाण्यं किं कृतमेतत् । श्राप्तप्रामाण्यकृतम् । किं पुनराप्तानां प्रामाण्यम् साक्षात्कृतधर्मता भूतदया यथाभूतार्थचिख्यापयिषेति | श्राप्ताः खलु साक्षात्कृतधर्माणः इदं हातव्यमयमस्य हानिहेतुरिदमस्याधिगन्तव्य मयमस्वाधिगमहेतुरिति भूतान्यनुकम्पन्ते । तेषां खलु वै प्राणभ्टतां स्वयमनवबुध्यमानानां नान्यदुपदेशादवबोधकारणमस्ति, न चानववोधे समीहा बर्जनं वा, नवाऽकृत्वा स्वस्तिभावः, नाप्यस्यान्य उपकारकोऽप्यस्ति | हन्त वयमेभ्यो यथादर्शनं यथाभूतमुपदिशाम स्त इमे श्रुत्वा प्रतिपद्यमाना हेयं हायन्त्यधिगन्तव्यमेवाधिगमिष्यन्तीति । एवमाप्तोपदेशः एतेन त्रिविधेनातप्रामाण्येन परिग्टहीतोऽनुष्ठीयमानोऽर्थस्य स्वाधको भवति । एवमाप्तोपदेशः प्रमाणमेवमाप्ताः प्रमाणम् । दृटार्थेनालोपदेशेनायुर्वेदेनादृष्टार्थो वेदभागोऽनुमातव्यः प्रमाणमिति श्राप्तपामाण्यस्य हेतोः समानत्वादिति, यस्यापि चैकदेशो ग्रामकामो यजेतेत्येवमादिईष्टार्थस्तेनानुमातव्यमिति । लोके च भूयानुपदेशाश्रयो व्यवहारः । लौकिकस्याप्य ुपदेष्टुरुपदेष्टव्यार्थ ज्ञानपरानुजिघृचया यथाभूतार्थ चिख्यापयिषया च प्रामाण्यम् । तत्परिग्रहादाप्तोपदेशः प्रमाणमिति द्रष्टुमवक्कु मामान्याञ्चानुमानम् । य एवाप्ता वेदार्थानां द्रष्टारः प्रवक्तारश्च त एवायुर्वेदप्रम्टतीनामित्यायुर्वेदप्रामाण्यवद्देदप्रामाण्यमनुमातव्यमिति । नित्यत्वाद्वेदवाक्यानां प्रमाणत्वे तत्प्रामाण्यमाप्तप्रामाण्यादित्ययुक्तम् शब्दस्य वाचकत्वादर्थप्रतिपत्तौ प्रमाणत्वं न नित्यत्वात् नित्यत्ये हि सर्व्वख सर्वे वचना छब्दार्थ व्यवस्थानुपपत्तिः । नानित्यत्वे वाचकत्वमिति चेत् न लौकिकेष्वदर्शनात्, तेऽपि नित्या इति चेत् न अनाप्तोपदेशादर्थ विसंवादो
६
For Private And Personal
<