________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ आङ्गिकम्। यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ॥७॥
यत्र यत्र संशयपूर्बिका परीक्षा शास्त्र कथायां वा तत्र तत्रैवं संशये परेण प्रतिषिट्वे समाधिर्वाच्य इति । अतः सर्वपरीक्षाव्यापित्वात्प्रथम संशयः परीक्षित इति अथ प्रमाण परीक्षा ॥
प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः ॥८॥
प्रत्यक्षादीनां प्रमाणत्व नास्ति बैकाल्या सिद्धेः पूर्वापरसहभावानुपपत्ते रिति । अस्य सामान्यवचनस्यार्थविभागः ॥
पूर्व हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात्यत्यक्षोत्पत्तिः ॥१॥
गन्धादि विषयं ज्ञानं प्रत्यक्षं तद्यदि पूर्वम्, पश्चाहन्धादीनां सिद्धिः, नेदं गन्धादिसन्निकर्षानुत्पद्यत इति ॥ पश्चात् सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ॥१०॥
असति प्रमाणे केन प्रमीयमाणोऽर्थः प्रमेयः स्यात् प्रमाणेन खल प्रमीयमाणोऽर्थः प्रमेयमित्येत त्मिध्यति ॥
युगपत्सिवौ प्रत्यर्थनियतत्वात् क्रमत्तित्वाभावो बुद्धौनाम् ॥ ११ ॥
यदि प्रमाणं प्रमेयञ्च युगपद्भवतः । एवमपि गन्धादिष्विन्द्रियार्थेषु ज्ञानानि प्रत्यर्थ नियतानि युगपत्यम्भवन्तीति ज्ञानानां प्रत्यर्थनियतत्त्वात् क्रमत्तित्वाभावः । या इमा बुद्धयः क्रमेणार्थेषु प्रवर्त्तन्ते तासां क्रमसित्वं न सम्भवतीति, व्याघात युगपज्ञानानुत्पत्तिर्मनसोलिङ्गमिति, एतावांच प्रमाणप्र मेययोः सद्भाव विषयः स चानुपपन्न इति तस्मात् प्रत्यक्षादीनां ममाणत्व' न सम्भवतीति, अस्य समाधिः उपलब्धिहेतोरुपलब्धिविषयस्य
For Private And Personal