________________
Shri Mahavir Jain Aradhana Kendra
३६
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्याय दर्शनवात्स्यायन भाष्ये
मिति, न चैतत्समानधर्मोपलब्धौ धर्मधर्मियहणमात्रेण निवर्त्तत इति यञ्चोक्तम् नार्थान्तराध्यवसायादन्यत्र संशय इति यो हार्थान्तराध्यवसायभात्वं संशयहेतुमुपाददीत स एवं वाच्य इति । यत्पुनरेतत्कार्य्यकारणयोः सारूप्याभावादिति कारणस्य भावाभावयोः कार्य्यस्य भावाभावी कार्य्यकारणयोः सारूप्यम् यस्योत्पादाद्यदुत्पद्यते यस्य चानुत्पादाद्यन्नोत्पद्यते तत्कारणं कार्य मितर दित्येतत्सारूप्यम्, व्यस्ति च संशयकारणे संशये वैतदिति, एतेनानेकधम्र्माध्यवसायादिति मतिषेधः परिहृत इति यत्पुभरेतदुक्त विप्रतिपत्त्य व्यवस्थाध्यवसायाञ्च न संशय इति । पृथक् प्रवादयोर्व्याहतमर्थमुपलभे विशेषञ्च न जानामि नोपलभे येनान्यतरमवधारयेयम् । तत् कोऽत्र विशेषः स्यादुद्येनैकतरमवधारयेयमिति । संशयो विप्रतिपत्तिजनितोऽयं न शक्यो विप्रतिपत्तिसम्प्रतिपत्तिमात्रेण निवर्त्तयितुमिति । एवमुपलब्धानुपलब्धावस्थाकृते संशये वेदितव्यमिति । यत् पुनरेतत् विप्रतिपत्तौ च सम्प्रतिपत्तेरिति विप्रतिपत्तिशब्दस्य योऽर्थः तदध्यवसायो विशेषापेचः संशयहेतुस्तस्य च समाख्यान्तरेण न निवृत्तिः मसानेऽधिकरणे व्याहतार्थी प्रवादौ विप्रतिपत्तिशब्दस्यार्थः तदध्यवसा यश्च विशेषापेचः संशयहेतुः न चास्य सम्प्रतिपत्तिशब्दे समाख्यान्तरे योक्यमाने संशयहेतुत्वं निवर्त्तते । तदिदमकृतबुद्धिसम्मोहनमिति । यत्पुनरव्यवस्थात्मनि व्यवस्थितत्वाञ्चाव्यवस्थाया इति संशयहेतोरर्थस्याप्रतिषेधादव्यवस्थाऽभ्यनुज्ञानाञ्च निमित्तान्तरेण शब्दान्तरकल्पना व्यथां शब्दान्तरकल्पना, अव्यवस्था खनु व्यवस्था न भवत्यव्यवस्थात्मनि व्यवस्थितत्वादिति नानयोरुपलब्धानुपलब्धत्रोः सदसद्विषयत्वं विशेषापेच्च संशयहेतुर्न भवतीति प्रतिषिध्यते यावता चाव्यवस्थात्मनि व्यवस्थिता न तावतात्मानं जहाति तावता ह्यनुज्ञाता भवत्यव्यवस्था । एवमियं क्रियमाणापि शब्दान्तरकल्पना नार्थान्तरं साधयतीति । यत्पुनरेतत्तथात्यन्तसंशयस्तद्धर्मातत्योपपत्तेरिति नायं समानधर्मादिभ्य एव संशयः किन्नर्हि तत्तद्दिषयाध्यवसायाद्विशेषस्मृतिसहितादित्यतो नात्यन्तसंशय इति व्यन्यतरधन्मध्यबसायाद्दा न संशय इति तत्र युक्तम् विशेषापेचो विमर्शः संशय इति -वचनात् विशेषश्चान्यतरधम्म न च तस्मिम्रध्यवसीयमाने विशेषापेक्षा सम्भवतीति ॥
For Private And Personal
-
-