________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ अानिकम् ।
नादव्यबस्था न भवतीत्यनुपपन्नः संशयः, अथाव्यवस्थात्मनि न व्यवस्थिता, एवमतादात्म्याद व्यवस्था न भवतीति सशयाभाव इति ॥ तथाऽत्यन्तसंशयस्तधर्मसातत्योपपत्तः॥५॥
येन कल्पेन भवान् समानधर्मोपपत्तेः संशय इति मन्यते तेन खल्वत्यन्तसंशयः प्रसज्यते समानधर्मोपपत्तेरनुच्छेदात् संशयानुच्छ दः नायमतधर्मा धौ विमृश्यमाणे ग्टह्यते सततन्तु तसर्मा भवतीति अस्य प्रतिषेधप्रपञ्चस्य संक्षेपेणोद्धारः॥
यथोक्ताध्यवसायादेव तविशेषापेक्षात् संशये नासंशयो नात्यन्तसंशयो वा ॥६॥
संशयानुपपत्तिः संशयानुच्छ दश्च न प्रसज्यते, कथम्, यत्तावहमानधर्माध्यवसायः संशयहेतुर्न समानधर्ममात्रमिति । एवमेतत्, कस्मादेवं नोच्यत इति विशेषापेक्ष इति वचनात् सिद्धेः । विशेषस्यापेक्षाकाङ्क्षा, मा चानुपलभ्यमाने विशेषे समर्था न चोक समानधर्मापेक्ष इति समाने च धर्मे कथमाकाङ्क्षा न भवेत् यद्ययं प्रत्यक्षः स्यात् । एतेन सामर्थेन विज्ञायते समानधर्माध्यवसायादिति उपपत्तिवचनाहा समानधर्मोपपत्ते रित्यु. च्यते न चान्यासद्भावसंवेदनाहते समानधोपपत्तिरस्ति । अनुपलभ्यमानमगावो हि समानो धर्मो विद्यमानवद्भवतीति | विषयशब्देन वा विषयिणः प्रत्ययस्याभिधानम् । यथा लोके धूमेनाग्निरनुमीयते इत्युक्त धूमदर्शनेनाग्निरनुमोयत इति ज्ञायते कथं दृष्ट्वा हि धूममग्निमनुमिनोति नादृष्ट्वा, न च वाक्ये दर्शनशब्दः श्रूयते अनुजानाति च वाक्यस्थार्थ प्रत्यायकत्वम्, तेन मन्यामहे विषयशब्देन विषयिणः प्रत्ययस्याभिधानम् बोद्धाऽनुजानाति एवमिहापि समानधर्मशब्द न समानधर्माध्यवसायमाहेति । यथोहित्वा समानमनयोधर्ममुपलभत इति । धर्मधर्मिग्रहणे संशयाभाव इति । पूर्वदृष्टविषयमेतत् | यावहमों पूर्वमद्राक्षन्नयोः समानं धर्मभु . पलभे विशेषं नोपलभ इति । कथन्त विशेषं पश्येयं येनान्यतरमबधारयेय
For Private And Personal