________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्सायनभाष्ये
___ अत अर्द्ध प्रमाणादिपरीक्षा सा च विमृश्य पक्ष प्रतिपक्षाभ्योमर्थावधारणं निर्णय इत्यये विमर्श एव परीच्यते ॥
समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायादा न संशयः ॥१॥
समानस्य धर्मस्याध्यवसायात् संशयो न धर्ममावात् । अथवा समानमनयोर्यवर्ममुपलभत इति धर्मधर्मिग्रहणे संशयाभाव इति । अथवा समानधर्माध्यवसायादर्थान्तरभते धर्मिणि संशयोऽनुपपन्न इति न जात रूपस्वार्थान्तरभूतस्याध्यवसायादर्थान्तरभूते स्पर्श संशय इति । अथवा नाध्यवसायादविधारणादनवधारणज्ञानं संशय उपपद्यते कार्यकारण योः सारूयाभावादिति । एतेनाने कधर्माध्यवसायादिति व्याख्यातम् | अन्यतरधर्माध्यवसायाच्च संशयो न भवति । ततो ह्यन्यतरावधारण मेवेति ।
विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च ॥२॥
न विप्रतिपत्तिमात्राद व्यवस्थामावाहा संशयः । किं तहिं विप्रतिपत्तिमुपलभमानस्य संशयः । एवमव्यवस्थायामपीति । अथवास्यात्मे - त्येके, नास्त्यात्मेत्य परे मन्यन्त इत्युपलब्धेः कथं संशयः स्यादिति । अथोपलब्धिर व्यवस्थिता अनुपलब्धिश्चाव्यवस्थितेति विभागो नाध्यवसिते संशयो नोपपद्यत इति ॥ विप्रतिपत्तौ च सम्प्रतिपत्तेः॥३॥
याञ्च विप्रतिपत्तिं भवान् संशय हेतु मन्यते सा सम्प्रतिपत्तिः । सा हि हयोः प्रत्यनीकधर्मविषया तत्त्र यदि विप्रतिप्रत्तेः संशयः सम्पतिपत्ते रेव संशय इति ॥
अव्यवस्थात्मनि व्यवस्थितत्वाचाव्यवस्थायाः॥४॥ न संशयः । यदि तावदियमव्यवस्था प्रात्मन्ये व व्यवस्थिता व्यवस्था
For Private And Personal