________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२६
न्यायदर्शनवाल्यायनभाष्ये
घेधः, तौ साधनोपालम्भौ उभयोरपि पक्षयोर्व्यतिषकावनुबद्धौ च यात्रदेको निवृत्त एकतरो व्यवस्थित इति निवृत्तयोपालम्भो व्यवस्थितस्य साधनमिति जल्प नियहस्थानविनियोगत्वादेतत्प्रतिषेधः, प्रतिषेधे कस्यचिदभ्यनुज्ञानार्थ सिद्धान्ताविरुद्ध इति वचनम्, सिद्धान्तमभ्युपेत्य तविरोधी विरुड्व इति हेत्वाभासस्य निग्रहस्थानस्याभ्यनुज्ञावादे पञ्चावयवोपपन्न इति, हीनमन्यतमेनाम्यवयवेन न्यूनम् हेतृदाहरणाधिकमधिकमिति चैतयोरभ्यनुज्ञानार्थमिति अवयवेषु प्रमाणतर्कान्न वे पृथक् प्रमाणतर्कग्रहणं साधनोपालम्भव्यतिषङ्गज्ञापनार्थम् । अन्यथोभावधि पचौ स्थापना हेतुना प्रवृत्तौ बाद इति स्यात् । अन्तरेणाप्यवयवसम्बन्धम् प्रमाणान्य यं साधयन्तीति दृष्टम् तेनापि कल्पेन साधनोपालम्भौ वादे भवत इति ज्ञापयति । छलजातिनिग्रस्थानसाधनोपालम्भो जल्य इति वचना. . विनिग्रहो जल्प इति मा विज्ञायि। छल जातिनियहस्थानसाधनोपालम्भ एक जल्पः प्रमाणतर्कसाधनोपालम्भो वाद एवेति मा विज्ञायीत्येवमर्थ पृथक प्रमाणतर्कग्रहणमिति ।
यथोक्नोपन्नग्छ लजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥४३॥
यथोक्तोपपन्न इति प्रमाणतर्कसाधनोपालम्भः सिद्धान्नाविरुद्धः पञ्चावयवोषपन्नः पक्षप्रतिपक्षपरिग्रहः । छलजातिनिग्रहस्थानसाधनोपालम्भ इति । छलजातिनिग्रहस्थानः साधनमुपालम्भासिन् क्रियत इति । एवंविशेषणो जल्पः न खल वै छलजातिनिग्रहस्थानैः साधनं कस्यचिदर्थस्य समावति प्रतिषेधार्थं चैषां सामान्यलक्षणे च श्रूयते वचनविधातो
विवल्योपपत्त्या छलमिति साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः । विप्रतिपत्तिर तिपत्तिश्च निग्रहस्थानमिति। विशेषलक्षणेष्वपि यथाखमिति न चैतद्विजानीयात् प्रतिषेधार्थ तथैवार्थ साधयन्नीति। छलजातिनिग्रहस्थानोपालम्भ इत्येवमध्य च्यमाने विज्ञायत एतदिति । प्रमाणैः साधनोपालम्मयोश्छलजातीनामङ्गभावो रक्षणार्थत्वात् न तु वतन्त्राणां
For Private And Personal