________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायदर्शनवात्यायनभाष्य
१८
स्तविपरीताः परीक्षका स्तर्केण प्रनार, परीक्षितमहन्नति, यथा यमर्थ लौकिका बुध्यन्ते तथा परीक्षका अपि सोऽर्थो दृष्टान्तः। दृष्टान्तविरोधेन हि प्रतिपक्षाः प्रतिषेव्या भवन्तीति । दृष्टान्नसमाधिना च खपक्षाः स्थापनीया भवन्नोति । अवयवेषु चोदाहरणाय कल्पत इति । अथ सिद्धान्तः । इदमित्वम्भतञ्जेत्यभ्यनुज्ञायमानमर्थ जातं सिद्धं सिद्धस्य संस्थितिः सिड्वान्तः। संस्थितिरित्यम्भावव्यवस्था, धमनियमः । स खल्वयम् ॥ तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः॥२६॥
तन्वार्थसंस्थितिस्तन्त्रसंस्थितिः । तन्त्रमितरेतराभिसम्बस्वार्थ समूहयोपदेशः शास्त्रम्। अधिकरणानुषनार्था संस्थितिरधिकरणसं स्थितिः । अभ्यु पगमसंस्थितिरनवधारितार्थ परिग्रहः तहिशेष परीक्षणायाभ्युपगममसिद्धान्तः । तन्त्रभेदात्तु खनु स चतुर्विधः ॥
. सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ॥ २७॥
तवैताश्चतस्रः संस्थितयोऽर्थान्त रभूताः, तासाम् ॥
सर्वतन्त्राविरुद्धस्तन्वेऽधिकृतोऽर्थः सर्वतन्त्रसिधान्तः ॥ २८॥
यथा प्राणादोनोन्द्रियाणि गवादय इन्द्रियार्थाः पृथिव्यादीनि भूतानि प्रमाणैरर्थस्य ग्रहणामिति ॥
समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥२६॥
यथा नासत अात्म जामः न सत अात्महानं निरतिशय चेतना: देहेन्द्रियमन:सु विषयेषु तत्तत्कारणेषु च विशेष इति सांख्यानाम्, पुरुष
For Private And Personal