________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात सायनभाष्य
इष्टमप्यनिष्टं सम्पद्यते अनिष्टहानाय घठमान इष्ट मपि जहाति विवेकहानस्थाशक्यत्वादिति दृष्टातिकमश्च देहादिष तुल्यः यथा दृष्टमनित्यं सुखं परित्यज्य नित्य सुखं कामयते एवं देहेन्द्रियबुद्धिरनित्या दृष्टा अतिक्रम्य मुक्तस्य निन्या देहेन्द्रियबुद्धयः कल्पयितव्याः, साधोयश्च वं मुक्त स्य चैकात्म्यं कल्पितम्भवतीति, उपपत्तिविरुद्धमिति चेत् समानम् । देहादीनां नित्य त्वं प्रमाणविरुद्ध कल्पयितु मशक्यमिति समानं सुखस्यापि नित्य त्वं प्रमाणविरुद्ध कल्पयितमशक्यमिति, आत्य न्निके च संसारदुःखा भावे सुख वचनादागमेऽपि सत्य विरोधः यद्यपि कश्चिदागमः स्यान्मुक्तस्थात्यन्तिकं सुख मिति सुख शब्द आत्यन्ति के दुःखाभावे प्रयुक्त इत्येवमुपपद्यते | दृष्टो हि दुःखाभावे सुखशब्दप्रयोगो बहुलं लोक इति, नित्यसुखरागस्याप्रहाणे मोक्षाधिगमाभावो रागस्य बन्धनसमाज्ञानात् यद्ययं मोजे नित्यं सुखमभिव्यज्यत इति नित्यसुखरागेण मोक्षाय घट. मानो न मोक्षमधिगच्छत्राधिगन्तुमर्हतीति बन्धनसमाज्ञातो हि रागः न च बन्धने सत्यपि कश्चिन्मुक्त इत्युपपद्यत इति प्रहीणनित्य सुखरागस्याप्रतिकूलत्वम् अथास्य नित्य सुखरागः प्रहीयते तस्मिन् प्रहीणे नास्य नित्य सुखरागः प्रतिकूलो भवति यद्येवं मुक्तस्य नित्यं सुखं भवति अथ पि न भवति नास्योभयोः पक्षयो भॊज्ञाधिगमो विकल्पात इति । स्थानवत एव तर्हि संशयस्य लक्षणं वाच्यमिति तदुच्यते ॥ .
समानानेकधर्मोपत्ते विप्रतिपत्तेरुपलब्धानुपलब्धाव्यवस्थातच विशेषापेक्षो विमर्शः संशयः
समानधर्मोपपत्ते विशेषापेक्षो विमर्शः संशय इति स्यागपुरुषयोः समानं धर्ममारोहपरिणाहौ पश्यन् पूर्वदृष्टञ्च तयोविशेषं वभुत्ममानः किंखिदित्य न्यतरन्नावधारयति तदनवधारणं ज्ञानं संशयः समानमनयो धर्ममुपलभे विशेषमन्यतरस्य नोपलभइत्येषा बुद्धिरपेक्षा संशयस्य प्रवर्तिका वर्तते, तेन विशेषापेक्षो विमर्शः संशयः। अनेकधर्मोपपत्तेरिति
For Private And Personal