________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याये १ आङ्गिकम्।
व्यक्तिः संवेदनं ज्ञान मिति तस्य हेतर्वाच्यो यतस्तदुपपद्यत इति, सुखवनित्यमिति चेत् संसारस्थस्य मुक्त नाऽविशेषः यथा मुक्तः सुखेन तत् संवेदनेन च सन्नित्ये नोपपन्न स्त था संसारस्थोऽपि प्रसज्यत इति । उभयस्य नित्य त्वात अभ्यनुज्ञाने च धर्माधर्म फलेन साहचर्य योगपद्य ग्टह्येत यदिदमुत्पत्तिस्थानेषु धमाधर्म फलं सुखं दुःखं बा संवेद्यते पर्यायेण तस्य च नित्यं स्वसंवेदनस्य च सह भावो यौगपद्य ग्टह्येत न सुखाभावो नाsनभिव्यकिरस्ति उभयस्य नित्यत्वात् अनित्यत्वे हेतुवचनम् । अथ मोच नित्य व सुखस्य संवेदनमनित्यं यत उत्पद्यते स हेतुर्वाच्यः अात्ममनःसंयोगस्य निमित्तान्तरसहितस्य हेतुत्वम् । आत्ममनःसंयोगो हेतुरिति चेत एवमपि तस्य सहकारिनिमित्तान्तरं वचनीयमिति धर्मस्य कारणवचनम् यदि धी निमित्तान्तरं तस्य हेतुर्वाच्यो यत उत्पद्यत इति योगसमाधिजस्य कार्यावसाविरोधात प्रलये संवेदनानिवृत्तिः, यदि योगसमाधिजो धर्मा हेतुस्तस्य कार्यावसायविरोधात प्रक्षये संवेदनमत्य न्न निवर्तयति असंवेदने चाविद्यमानाविशेषः यदि धर्मक्षयात् संवेदनोपरमो नित्य मुखं न संवेद्यत इति किं विद्यमान न संवेद्यते अथाविद्यमानमिति नानुमानं विशिष्टे ऽस्तीति अप्रक्षयश्च धर्मस्य निरनुमान त्यत्तिधर्मकत्वात् योगसमाधिजो धी न क्षीयते इति नास्त्यनुमानमुत्पत्तिधर्म कमनित्यमिति विपर्ययस्य त्वनुमानम् यस्य तु संवेदनोपरमो नास्त तेन संवेदनेन हेतुनित्य इत्य नुमेयम् । नित्ये च मुक्तसंसारस्थयोरविशेष इत्युक्तम् यथा मुक्तस्य नित्यं सुखं तावेदन हेतुश्च संवेदनस्य तूपरमो नास्ति कारणस्य नित्य त्वात् तथा संसारस्थस्था पीति एवञ्च सति धर्माधर्मफलेन सुखदुःखसंवेदनेन साहचव्यं ग्ट ह्ये तेति। शरीरादिसम्बन्धः प्रतिबन्ध हे तरिति येत् न शरीरादीनामुपभोगार्थत्वात् विपर्ययस्य चाननुमानात् । स्थान - मतं संसारावस्थशरीरादिसम्बन्धी नित्य सुखसंवेदनहेतोः प्रतिबन्धकस्तेना.. विशेषो नास्तीति, एतच्चायुक्तम् शरीरादय उपभोगार्थास्ते भोगप्रतिबन्ध करिष्यन्तीत्य नुपपन्नम् न चास्यनुमानमशरीरस्थात्मनो भोगः कश्चिदस्तीति, इष्टाधिगमार्था प्रत्तिरिति चेत् न अनिष्टोपरमार्थत्वात् इष्टाधिगमार्थे। मोक्षोपदेशः प्रवृत्तिश्च मुमुक्षणामिति नेष्ट मनिष्टे नाननुविड़ सकतीति
For Private And Personal