________________
Shri Mahavir Jain Aradhana Kendra
१४
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्स्यायनभाष्ये
पुनरुत्पत्तिः प्रेत्यभावः ॥ १८ ॥
उत्पन्नस्य कचित् सत्वनिकाये म्हत्वा या पुनरुत्पत्तिः स प्रेत्यभावः । उत्पन्नस्य सम्बद्भस्य सम्बन्धस्तु देहेन्द्रियमनोबुद्धिवेदनाभिः पुनरुत्पत्तिः पुनर्देहादिभिः सम्बन्धः पुनरित्यभ्यासाभिधानम् । यत्र कचित् प्राणनिकाये वर्त्तमानः पूर्वेपात्तान् देहादीन् जहाति तत्यैति यत् तत्रान्यत्र वा देहादीनन्यानुपादत्ते तद्भवति प्रेत्यभावो मृत्वा पुनर्जन्म सोऽयं जन्ममरणप्रबन्धाभ्यासोऽनादिरपवर्गान्तः प्रत्यभावो वेदितव्य इति ॥
प्रवृत्तिदोषजनितोऽर्थः फलम् ॥ २० ॥
सुखदुःखसंवेदनं फलम् सुखविपाकं कर्म दुःखविषाकञ्च तत्पुनर्देहेन्द्रियविषयबुद्धिषु सतीषु भवतीति सह देहादिभिः फलमभिप्रेतम् तथा हि प्रवृत्तिदोषजनितोऽर्थः फलमेतत् सर्व्वम्भवति तदेतत् फलमुपात्तमुपात्तं यं त्यक्त त्यक्तमुपादेयमिति नास्य हानोपादानयोर्निष्ठा पत्रानं वाऽस्ति न खल्वयं फलस्य हानोपादानस्रोत सोह्यते लोक इति । अथैतदेव || बाधनालक्षणं दुःखमिति ॥ २१ ॥
,
-
For Private And Personal
बाधना पीडा ताप इति । तयानुविङ्गमनुषक्तमविनिर्भागेन वर्त्तमान दुःखयोगाद्दुःखमिति सोऽयं सर्वं दुःखेनानुविद्धं वृहन्तमिति पश्यन् दुःखं जिन्हासुर्जन्मनि दुःखदर्शी निर्विद्यते निर्बिस्पो विरज्यते विरक्तो विमुच्यते यत्र तु निष्ठा सोऽयं यत्र तु पर्यवसानम् ॥
तदत्यन्तविमोक्षोऽपवर्गः ॥ २२ ॥
तेन दुःखेन जन्मनात्यन्तं विमुक्तिरपवर्गः कथमुपात्तस्य जन्मनो हानअन्यस्य चानुपादानम् एतामवस्थामपर्यन्तामपवर्ग वेदयन्ते ऽपवर्गविदः दभयमजर मम्मृत्युपदं ब्रह्ममप्राप्तिरिति । नित्यं सुखमात्मनो महत्ववन्मोक्षे व्यज्यते तेनाभिव्य क्ते नायन्त' विमुक्तः सुखी भवतीति केचिन् भन्यन्ते तेषां प्रमाणाभावादनुपपत्तिः, ग प्रत्यक्षं नानुमानं नागसो वा विद्यते नित्यं सुखमात्मनो महत्ववन्नीचेऽभिव्यज्यत इति नित्यस्याभि