________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायसूत्रत्तौ। .
व्यतिरेकात् येन कायेन कर्मकतं तस्य नाशात् वृक्षस्यले तु तस्य वृक्षस्य सत्त्वात् सलिलमेकादिकं परिकर्मोपयुज्यत इत्यभिमानः ॥ ५१ ॥ ___ समाधत्ते । अाश्रयव्यतिरेकादिति हेतुर्न युक्तः प्रोतेः सुखस्य खर्गिशरीरावच्छ देन जायमानस्यात्मवृत्तित्वाद्यागादिसामानाधिकरण्यादित्यर्थः ॥ ५ ॥
कचिहामानाधिकरण्यसम्भवेऽपि सर्वत्र न तथेति शङ्कते। पुत्रादीनां फलनिर्हे शात् सामानाधिकरण्यन सम्भवतीति भावः ॥ ५३ ॥
__ यद्यपि पुलादीनामहिकफलत्वात्तत्रायव्यतिरेकाभावात् शङ्कव न तथापि यत्र जन्मान्तरोयधनादिकमपि फलं सात्तत्रापि नानु पपत्तिरित्याशये नाह। तत्सम्बन्धात्युलादि सम्बन्धात् फलनिष्पत्त: प्रीत्यु त्यत्त: तेष पुत्रादिषु फलवदुपचार: फलत्वेन व्यपदेशः यथाऽन्न वै प्राणिनां प्राणा इति ॥ ५९॥ समाप्त फल परीक्षा प्रकरणम् ॥ ५० ॥ ___अथ क्रमप्राप्त दुःखं परोक्षणीयं तत्र च बाधनालक्षणं दुःखमित्वन तदर्थ स्तु दुःखत्व जातिमत्त्वमित्यात तच्च शरीरादौ दुःखेऽव्याप्तमित्याशझ्याह । जननयोगाज्जन शरीरादिकं तदुत्पत्तिस्तत्सम्बन्धः विविधनाधना.. योगात् दुःखमिति व्यपदिश्यते न तु वास्तवमेव तत् दुःख तथा च विविधदुःखातुषकतया हेयत्वार्थं दुःखमिति भावनीयम पदिश्यते ॥ ५५ ॥
ननु दुःखभावनेन किं सुख प्रत्याख्यायते न चैतच्छ क्यमत काह | दुःखानां मध्ये सुखस्थाम्य त्यत्तेस्तत्प्रत्याख्यानस्थाशक्य त्वात् ॥ ५६॥
ननु सुखदुःखसम्बन्धाविशेषात् सुखभावन मेव किं नेष्यत इत्यलाह । दुःखभावनस्य न प्रतिषेधः वेदयतः सुखसाधनत्व जानत: पर्ये पण दोषात पर्थेषणे सुखार्थ प्रवर्तने दोषात् सुखार्थ प्रवर्त मानो हि अर्जनपालनादौ विविधाभिर्वाधनाभिरुपतप्यतेऽतोदुःखभावनं वैराग्यहेतुतयोपदिश्यते ॥५७॥
ननु दुःखमनुभवतः स्वत एव निवृत्तिसम्भवात् दुःखभावनोपदेशो व्यर्थ इत्यत आह। दुःखस्य विविधः कल्पो यत्र ताशे प्रतिषिद्धहिंसाभोजनमैथुनादौ प्रवृत्तिर्माभूदित्ययमुपदेश इति भावः ॥ ५.८ ॥
समाप्तं दुःखपरीक्षाप्रकरणम् ॥ ५.१ ॥ अथ क्रमप्राप्ततयाऽपवर्गः परीक्षणीयः तत्र च तदर्थक प्रवृत्तिकाला
For Private And Personal