________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
২৩७
४ अध्याये १ श्रह्निकम् ।
समाधत्ते । स्वर्गादिनिष्पत्तेः प्राक् तद्द्वारं स्यात् दृष्टान्तमाह वृक्षफलवत् यथा मूलसेकादिनाशेऽपि तदधीनावयवोपचयादिद्दारबलेन फलोत्पत्तिस्तथा प्रकृतेऽपि यागादिनाशेऽपि तज्जन्यादृष्टरूपद्वारसवान्न खर्गादुत्पत्तिविरोधः ॥ ४७ ॥
a
ननु कार्यकारणभाव एव न विचारसह इत्याशङ्कते । प्रानिपत्तेरित्यनुवर्त्तते फलमित्यध्याहर्त्तव्यं तथा चोत्पत्तेः प्राक् फलं नासत् असत उत्पत्ती शशश्टङ्गादेरम्युत्पत्तिः स्यात् स्याच्च सिकतादावपि तैलं नवासत् सत उत्पत्तिविरोधात् वातएव न सदसत्कदसतोः सत्त्वात्वलक्षणवैधर्म्यात् ॥ ४८ ॥
◄
प्रागुत्पत्तेरुत्पत्तिधर्मकमसदित्यडा उत्पादव्यय
दर्शनान् ॥ ४८ ॥
समाधत्ते । उत्पत्तिधर्मकं उत्पत्तिधर्मकत्वेनोपलभ्यमानं पटादिकमुत्पत्तेः प्रागमदिति श्रद्धा तत्त्वम् उत्पादनाशयोः प्रमितत्वात् इदानीं घट उत्पन्न इदानीं घटोविनष्ट दूति प्रत्ययात् सतस्तु नोत्पत्तिसम्भव उत्पचपुनरुत्पादप्रचङ्गात् यद्यपि नाशस्य तत्व हेतुत्वं तथाप्यनुत्पन्नभावस्य नाथायोगादुत्पादसाधकत्वेन नाथ उक्तः ॥ ४८ ॥
व्यस्त उत्पत्तौ नियमो न स्यादित्यत्राह । तत्कार्यम् असत् प्रागभावप्रतियोगिबुद्धिसिद्धं बुद्धा विषयोलतं तथा हि इह तन्नुष पटो भविष्यतीति ज्ञात्वा कुविन्दः प्रवर्त्तते नतु पटोऽस्तीति ज्ञात्वा तथा सति सिद्धत्वेन ज्ञात इच्छाऽभावात् प्रवृत्त्यनुपपत्तेः सिकतादौ पटो भविष्यतीति न ज्ञायते किन्तु न भविष्यतीति ज्ञायत एव कुत इति चेदनुभवमष्टच्छः किञ्च त्वन्मतेऽपि कुतो न ज्ञायते तत्र पटाभावादिति चेत् कथमिदं निरणाय पटात्पूर्वं तन्तु सिकतयोस्तुल्यत्वात् तन्तुत्वेनाश्रयतेति चेत्तन्तुत्वेन कारणतेत्येवं स्यात् प्रवृत्त्यनुरोधात् ||५०||
नन्वस्तु हेतुफलभावस्तथापि वृचफलवदिति दृष्टान्तवैषम्यानाडष्टसिद्धिरित्याशयेन शङ्कते । प्रानिष्पत्ते वृचफलवदित्य हेतुः कुतः श्राश्रय
२४
For Private And Personal