________________
Shri Mahavir Jain Aradhana Kendra
४
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
अध्याय १ आह्निकम् ।
भावात्तदभाव इति पूर्वपचयति । ऋणाद्यनुबन्धादपवर्गानुष्ठानकालाभावादपवर्गीभावः स्यात् तथा च यते जायमानो ह वैब्राह्म यस्त्रिभिः ऋणवान् जायते ब्रह्मचर्येण ऋषिभ्यः यज्ञेन देवेभ्यः प्रजया पितृभ्य इति इति ऋऋषिभ्यः ऋष्णेभ्यो ब्रह्मचर्येण मुच्यते देवेभ्यः देवर्णेभ्यः यज्ञेन मुच्यते प्रजया अपत्येन पितृभ्योमुच्यते पापाकरणेनैव च जीवनापगमः तथा च श्रूयते तत्मलं यदग्निहोत्र' दर्शपौर्णमासो च जरयाहवा एष तमाहिमुच्यते म्हत्युना चेति ऋणापाकरणमन्तरेण च न तत्त्र प्रवृत्तिः तथा च मर्यते ऋणानि त्रीण्यपाकृत्य मनोमोत्ते निवेशयेत् । चनपाकृत्य मोच्चन्तु सेवमानो बजत्यथः एवं क्लेशानुबन्धादपि पुरुषो हि रागादिभिस्तत्तत्कर्माण्यारभमाणः क्लेशानुविङ्ग एव दृश्यने तत्कथनपवर्गः एवं प्रवृत्त्यनुबभ्वादपि पुरुषो हि वाग्बुद्धिशरीरैस्तत्तत्कर्माण्यारभमाणो धर्मायावज्जीवमुपार्जयन् कथमपसृज्यतामिति ॥ ५६ ॥
a
:
समाधत्ते । जायमान इत्याद्यनुवादो हि प्रधानशब्दः न हि जायमानः कर्मण्यधिक्रियते तथा च भाष्यं यदा तु मातृजो जायते कुमारको न तदा कर्मभिरधिक्रियते अर्थिनः शक्तस्य चाधिकारादिति जायमान दूत्यनेन कोवा व्यावर्त्तनीयः नह्य जातस्य प्रसक्तिरस्ति येनासौ व्यावर्त्तनोयः तत्र भाष्यं जायमान इति गुणशब्दो विपर्ययेऽनधिकारादिति तथा च जायमान इत्यनेनोपनीत उच्यते तस्य ब्रह्मचर्य्यादावधिकारात् ग्निहोत्रादौ ग्टहस्थस्याधिकारः चौमे बसानो वाधीयतामिति श्रुतेः एवमृणशब्दोऽपि न मुख्य ः नह्यत्र प्रत्यादेयं कखन ददाति परन्तु ऋणापाकरणवदावश्यकत्वख्यापनाय तथोक्त लाचणिकशब्दप्रयोगे वीजमाह निन्दाप्रशंसोपपत्तेः ऋणानपाकरणतदपाकरणाभ्यामिवाग्निहोत्राद्यकरणतत्करणाभ्यां निन्दाप्रशंसे उपपद्येते नचानुष्ठानकालाभावः जरया - विमुच्यत इत्युक्तेः न च जरयाऽशक्तिरुपलक्ष्यते बन्ते वासी वा जुहुयात् ब्रह्मणा हि स परिक्षीण इत्यादिनाऽभक्तस्थापि विधानात् तस्मादायुषचतुर्थभागो जरेत्युच्यते कि जरामवादः कामनाभिप्रायेण तथा च भाष्यम् श्रर्थित्वस्य चापरिणामे नरामर्थवादेोपपत्तेरिति अर्थित्वं का
ܘ
२७६
For Private And Personal