________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२५.६
न्यायसूत्रटत्तौ ।
मचात्मा तथा तस्य जन्यधर्मानधिकरणस्य कूटस्यत्वात् तस्मात्तिमती बुद्धि रेव वृत्तिस्तु तस्याः परिणामः बुद्धरष्याविर्भावतिरोभावावेव न तत्पादविनाशाविति ॥ २ ॥
परिहरति । साध्यसमत्वात् व्यसिद्धत्वात् प्रतिसन्धातृत्व न हेतुः हं जानामीत्यादिना श्रात्मनएव प्रतिसन्धात्प्रत्ययात् अनादिनिधनत्वमेव तस्य कौस्थ्य व याहणं त्वसिद्धमिति भावः ॥ ३ ॥
बुद्धरेव स्थायिन्या यथाविषयं ज्ञानात्मिका वृत्तयोष्टत्तिमदभिन्ना वह्नेरिव स्फुलिङ्गा निःसरन्तीति सांख्यमतं निरस्यति । वृत्तिवृत्तिमतोर - भेदे वृत्तिदवस्थित्या वृत्तेरयवस्थितिर्व्वाच्या तथा च सर्व पदार्थग्रहणं युगपत्स्यात् न चैवं तस्मान्नाभेद इति ॥ ४ ॥
काथ वृत्तीनामनवस्थायित्वमुच्यते तत्राह । श्रप्रत्यभिज्ञाने प्रत्यभिज्ञानस्य अभावे विनाशे वृत्तिमतोऽपि विनाशः स्यादतो न द्वयोरेकाम् ॥ ५ ॥
अयुगपद्द्महणम् स्वमते व्युत्पादयति । मनसइत्यादि मनसोऽणुत्वादिन्द्रियैः सह क्रमेण सम्बन्वात् ज्ञानानां क्रमिकत्वं तथा च विभु चैकं मनः पर्यायेण चैरिन्द्रियैः सम्बध्यत इत्यवतारभाष्यं तत्तदिन्द्रियमनः संयोगे सति ज्ञानमुपपद्यते ॥ ६ ॥
तद्यतिरेके ज्ञानाभावमुपपादयति । अप्रत्यभिज्ञानं तत्तदिन्द्रियजज्ञानाभावः विषयान्तरेण इन्द्रियान्तरेण मनसः सम्बन्धादित्यर्थः ॥ ७ ॥
वन्मते चेदोपपद्यतइत्याह । त्वन्मते मनसः क्रमेणेन्द्रियसम्बन्धो न मनसो विभुत्वेन गत्यभावात् परेल नकारोन सत्रान्तर्गतः किन्तु विभुत्वे चान्तः करणस्य पर्यायेणेन्द्रियैः संयोगो नेति भाष्यावतारणिकायां इत्याहुः
॥ ८ ॥
वृत्तित्तिमतोर्वस्तुतोऽभेदेऽपि भेदप्रत्ययप्रतिपादनाय शङ्कते । यथा जवाकुसुमादिसन्निधानादेकस्यापि स्फटिकस्य तत्तद्रूपाभिमान - स्तथावृत्तिमदभिन्नापि वृत्तिस्तत्तद्विषयसन्निकर्षवशान्नानेव प्रतिभासत
इति ॥ ६ ॥
दूषयति । म्नमत्वे साधकाभावानोकं युक्तमित्यर्थः केचित्तु न है
For Private And Personal