________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२५२
न्यायसूत्रवृत्ती ।
इत्याशङ्कायामाह । रूपस्य अभिव्यक्तौ प्रत्यक्षे उद्भूतत्व इति यावत् उङ्गतरूपस्य प्रत्ययाभावे ह्यभिभवकल्पना नत्वेवं प्रकृते सुवर्णादिवत्सर्वदाभिभावकद्रव्यान्तरकल्पनेच गौरवमिति भावः ॥ ४२ ॥
चच्चु ।
तुषि प्रमाणान्तरमाह । नक्तञ्चराणां वृषदंशादीनां गोलके रश्मिदर्शनात् तद्दृष्टान्तेन परेषामपि रश्क्ानुमानमिति भावः अन्यथा तर्मासि तस्य प्रत्यच्तं न स्यादिति हृदयम् ॥ ४३ ॥
अप्राप्यकारित्व ं चच्क्षुषः स्यादित्याशङ्कते ॥ ४४ ||
समाधत्ते | परेत्तु उक्तस्त्रत्त्रस्य पूर्वपच्चपरत्व ं मन्यमानस्य भाष्यकारस्यावनारणिका अप्राप्यग्रहणमिति वस्तुतः सिद्धान्तसूत्रमेव तत्प्रदीपदृष्टान्तेन काचाद्यन्तरितप्रकाशकत्वेन तैजसत्व सिध्यतीति नन्वप्राप्य - कारित्वं किं न स्यादवाह कुझेति उक्तस्य तैजसत्वस्य प्रतिषेधो गोलकात्मकत्व न सम्भवति कुड्यान्तरितस्यानुपलब्धेरित्याद्धः ॥ ४५ ॥
ननु कुड्यान्तरित दूव काचान्तरितेऽमि सत्रिकर्षो न सम्भवतीति कथं प्राष्यकारित्वमित्याशङ्कायामाह । काचादिना स्वच्छद्रव्येणाप्रतिघातादप्रतिबन्धात्सन्निकर्ष उपपद्यत इति भावः ॥ ४६ ॥
तत्त्र दृष्टान्तमाह | दाह्य इति वस्तुमात्रोपलचणं परेतु दाह्य कपालादौ वप्रादेरविघातपरं तदित्याङः ॥ ४७ ॥
व्याचिपति । अप्रतिघातो न युक्त इतरस्य स्फटिकादेरितरस्य कुते र्यो धर्मः प्रतिघातकत्वं तत्प्रसङ्गात् स्फटिकादिकर्मापि कुयादिवत्प्रतिबन्धकं भवेदित्यर्थः ॥ ३८ ॥
समाधत्ते । बादर्शे उदके च प्रसादखाभाव्यात्ख च्छ खभावत्वात् मुखादिरूपोपलब्धिर्नतु भित्तादावेवं स्फटिकाद्यन्तरितस्योपलब्धिर्नतु कुड्याद्यन्तरितस्येति स्वाभाव्यान्न दोषः एतेन वप्रादेर्घटादिनाऽप्रतिघातवचक्षुषोऽपि प्रतिघातो न स्यादिति मत्यक्तं वाद्यप्रतिबन्धेऽपि दीपालोकादेः प्रतिबन्धवत्सम्भवादिति भावः ॥ ४६ ॥
चक्षुषस्तादृशत्वकल्पने किं मानमित्यत्राह । हि यस्मात् दृष्टानामनुमितानां वा पदार्थानां दृष्टेनानुमितानामिति वार्थः तेषामेवं भवितेति
For Private And Personal