________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ आङ्गिकम्।
२४१
सवर्णतामपहाय कट कतामापन्नं पुनः सुवर्णता तदा व्यभिचारः शक्येत न चैवं प्रकृते त इकारतां हित्वा यकारतां प्राप्तस्यापीकारतापत्तिरस्वेवेति दोषोदुःपरिहर इति भावः ॥ ४६ ||
अविकारे मूलयुक्तिमाह । वर्णानां नित्यत्वे विकारासम्भवाद नित्यत्वे चाचिरस्थायित्वेनेकारप्रत्यक्षानन्तरमिकारनाशादिकारानुपपत्तिरित्यर्थः ॥ ५३॥
अत्र विकारवादी नित्य त्वमतमालम्बा परिहरति । विकाराणां प्रतिषेधो न युनः नित्यानां धर्मविकल्पाद्धर्मस्य नानाविधत्वादतीन्द्रियत्वात चकारेणैन्द्रियकत्वं समुच्चीयते यथा हि नित्यानामाकाशादीनामतीन्द्रियत्वेऽपि गोत्वादोनां नित्यत्वमेवमन्येषां नित्यानामविकारित्वेऽपि वर्णानां विकारित्वं स्यादिति || ५३ ॥
अनित्यत्वमालम्बा स साह। अनवस्थायित्वेऽपि वर्णानां यथाप्रत्यहं भवत्येवं विकारोऽपि स्यादिति भावः ॥ ५४॥
___ उभयत्रोत्तरयति । उक्तः प्रतिषेधो न युक्तः विकारधर्मित्वे नित्यवासम्भवात् विकारोह्यत्र खरूपपरित्यागेन रूपान्तरापत्तिः तथात्वे च नित्यत्वविरोधात् न हि घटादेः कपालाद्यपादेयत्ववत्मकतेः सम्भवति यकारकाले इकारानुपलब्धेः अनित्यत्वपक्षेऽपि प्रतिषेधो न युक्तः प्रत्यक्ष हि वर्णस्य द्वितीयक्षणे युज्यते विकारस्तु कालान्तरोयो न युज्यते दधीति शब्दानन्नरम वेत्यादि शब्देन तस्य नाशादिति भावः ॥ ५५ ॥
इतश्च विकारानुपपत्तिरित्याह । विकाराणां हि प्रकृतिनियमो यथा जोरदनोः प्रकृति विकारभावो नत वैपरीत्यं प्रकृतेतु दध्यवेत्यादौ विकारो यकारप्रकृतिविध्यतीत्यादौ तु यकार कारप्रकृतिरिति भावः ॥ ५६ ॥ . अत्र छलवादी शङ्कते । अनियमो य उन्नः स न युक्तः कुतः अनियतत्वस्य नियमादित्यर्थः ॥ ५७ ॥
समाधत्ते । अनियमे नियमात् यस्त्वया नियमप्रतिषेधः कृतः स न युक्तः
For Private And Personal