________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२३८
न्यायसूत्तौ ।
दानमित्यर्थः प्रतिषेधोन युक्तः न हि दानं ममाभिप्रेतं किन्त्वध्यापनं तञ्च विद्यमानस्य शब्दस्यैवेति भावः ॥ २८ ॥
सिद्धान्त सूत्रम् । अन्यतरस्य पक्षस्यानित्यत्वसाधकस्याध्यापनाद्यः प्रतिषेधः स न सम्भवति उभयोः पच्चयोरध्यापनस्य समानत्वादिति शेषः अध्यापनं हि गुरूच्चारणानूच्चारणं शिष्योच्चारणानुकूलोञ्चारणं वा तच्च स्थेयस्यैर्यपक्षयोस्तुल्यं न शब्दनित्यतायाः साहायक विधातुमलं न ह्यध्यापनं दानं येन स्वस्वत्वध्वं सपरखत्वापादनार्थं तस्य स्वर्य्यमाशङ्कनीयं न वा सम्भवति वहूनामेकदा स्वत्वविरोधात्परखदानासम्भवाञ्च यपि तु न्टत्याध्यापन. दाविवोपदेशमात्त्रमिति भावः ॥ २६ ॥
पूर्व्वपक्षसूत्रम् । यति स्थिरं तदभ्यस्यमानं दृष्ट' यथा दशलत्वोरूपं पश्यति एवं शतकृत्वो नुवाकमधीत इत्यभ्यासात्स्वयें शब्दस्येति भावः ॥ ३० ॥
उत्तरयति । पूर्व्वपच्चीन युक्तः कुतः अन्यत्वं भेदेपि शब्दानां काव्ययनाभ्यासस्य उपचारात्सम्भवात् न ह्यभ्यासः स्थैर्यं साधयति द्विर्जुहोति - त्रिन्त्यतीत्यादौ भेदेऽप्यभ्यास दर्शनादिति भावः ॥ २१ ॥
अन्यतैव जगति नास्तीति कथमन्यत्वेऽप्यभ्यासोपपत्तिरिति तटस्य वाशङ्कते । यदन्यस्मादन्यदुच्यते तत् स्वस्मादनन्य दभिन्न तत्कथमन्यङ्गेदाभेदयोर्विरोधादिति भावः स्वाभेदस्यावश्यकत्वमिति हृदयम् ॥ ३५ ॥
समाधत्ते । तदभावेऽन्यत्वस्याभावेऽनन्यतापि नास्ति तयोर्भेदाभेदयोः सिद्धेः परस्परसापेचत्वात् वस्तुतस्तु तयोर्मध्यतरस्य एकतरस्य अनन्यत्वस्य इतरापेचसिद्ध: इतरत्वस्य भेदस्य ज्ञानापेक्षा सिद्धिर्यस्य ताडशत्वादित्यर्थः ॥ ३३ ॥
शङ्कते । शब्दो नित्यइत्यादिः अनुपलब्धिरमत्यन्तमज्ञानं वा ॥ ५४ ॥ यो प्रतिवन्विमाह । यद्यप्रत्यच्तत्वादभावसिद्धिस्तदा श्रवणकारणस्याप्रत्यच्तत्व दश्रवणं न स्यादिति सततश्रवणप्रसङ्गदूत्यर्थः ॥ ३५ ॥
द्वितीयेत्वाह । अनुमानादिना उपलभ्यमाने विनाशकारणे अनुपलो रभावत्व होयो हेतुरनुपदेश असाधकः प्रसिद्धत्वात् जन्यभावत्वेन विनाशकल्पनमिति भावः ॥ ३६ ॥
For Private And Personal