________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायतत्तौ ।
वेदे वाक्यविभागं दर्शयति । मन्त्रब्राह्मणभेदाद्दिधा वेदस्तत्व बालयस्यायं विभागः विधिवचनत्वेनार्थवादवचनत्वेनानुवादवचनत्वेन च वेदस्य विनियोगात् विभजनात् अथवा विनियोगात् भेदात् तथा च विध्यादिभेदाद्ब्राह्मणभागखिधेति शेषः ॥ ६१ ॥
तत्र विधिलक्षणमाह । इष्टसाधनताबोधक प्रत्ययसमभिव्याहृतवाक्यं विधिः अग्निहोत्रं जुहुयात् स्वर्गकाम इत्यादि अर्थवादः श्रर्थस्य प्रयोजनस्य वदनं विध्यर्थप्रशंसापरं वचनमित्यर्थः यर्थवादोहि स्तुत्यादिद्वारा विध्यर्थं शीघ्र प्रवृत्तये प्रशंसति ॥ ६२ ॥
तत्व स्तुत्यादिभेदादर्थवादं विभजते । स्तुतिः साचाद्विध्यर्थस्य प्रशंसार्थकं वाक्यं यथा मजिता वै देवाः सर्व्वमजयन् सर्वस्य श्राप्य सर्वस्य जित्ये सर्वमेवैते नाप्नोति सर्वं जयतीत्यादि अनिष्टबोधनद्वारा वि ध्यर्थं प्रवर्त्तकं निन्दा एषवावप्रथमोयज्ञानां यज्जयोतिष्टोमोय एतेनानिष्ट्वा अन्येन यजते स गर्ने पतत्ययमेवैतज्जीर्यते प्रत्रामीयत इत्यादि पुरुषविशेत्रनिष्ठमिथोविरुद्धकथनं परकृतिः यथा हत्वा वपामेवाग्रेऽभिघारयन्त्यथ पृषदाज्यं तदुहच रकाध्वर्यवः पृषदाज्यमेवास भिघारयत्यग्नेः प्राणाः पृषदाज्यमित्यभिदधतीत्यादि ऐतिह्यसमाचरिततया कीर्त्तनं पुराकल्पः यथा तस्माद्दा एतेनपुराब्राह्मणावहि: पबमानसामस्तो मम स्तौषन् यज्ञं प्रतनवामह इत्यादि ॥ ६३ ॥
अनुवादलक्षणमाह । प्राप्तस्य अनु पश्चात्कथनं स प्रयोजनमनुवाद इनि सामान्य लक्षणं तद्विशेषविधिविहितस्येति विध्यनुवादविहितावादचेत्यर्थः व्ययं चार्थवादानुवादविभागोविधिसमभिव्याहृतवाक्यानां तेन भूतार्थवादरूपाणां वेदान्तवाक्यानामपरिग्रहान्न न्यूनता ॥ ६४ ॥
:
शङ्कते । शब्दाभ्यासस्य बोधितार्थक शब्दस्य योऽभ्यासः पुनः प्रयोग स्तस्योपपत्तेः सत्त्वात् व्यनुवादः पुनरुक्तान्न भिद्यतइत्यर्थः ॥ ६५ ॥
६३२
समाधत्ते । अनुवादस्य पुनरुक्तान्नाविशेषः अभ्यासात् अभ्यासस्य सप्रयोजनत्वात् तत्र दृष्टान्तमाह शोषेति यथा लोके गम्यतामित्यक्का पुनगम्यतां गम्यतः इत्यादि कर्माविलम्बादिबोध मुच्यते तथा मकते
ऽपीति ॥ ६६ ॥
For Private And Personal
1
-