________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये १ प्रातिकम्।
२३१
शब्दस्य दृष्टादृष्टार्थ कत्वेन वैविध्यसक्त तत्र चादृष्टार्थकशब्दस्य वेदस्य प्रामाण्यं परीक्षित पूर्व पक्षयति । तस्य दृष्टार्थ कव्यतिरिक्त शब्दस्य वेदस्य अप्रामाण्यं कुतः अन्तत्वादिदोषात् तत्र च पुलेष्टिकारी यागादौ कचित् फलानुत्पत्तिदर्शनादरत त्वं व्याघातः पापरविरोधः यथा उदिते जुहोति अनुदिते जुहोति समयाध्युषिते जुहोति श्यावोऽस्याहुतिमभ्य बहरति यउदिते जुहोति शवलोऽस्याहुतिमभ्यवहरति योऽनुदिते जुहोति श्यावशवलावस्याहुतिमभ्यवहरतो यः समयाध्यषिते जुहोति अत्र चोदितादिवाक्यानां निन्दानुमितानिष्टसाधनताबोधकवाक्येन सह विरोधः पौनरुत्यादप्रामाण्यं यथा नि:प्रथमा मन्वाह विरुत्तमामन्वाहेत्यवोत्तमत्वस्य प्रथमत्व पर्यवसानात् त्रिःकथ नेन पौन रुत्य एतेषामग्रामाण्ये तहटान्तेन तदेकर्ट कत्वेन तदेक जातीयत्वेन वा सर्ववेदान माण्यं साधनीयमिति भावः ॥५६॥
सिद्धान्तसूत्रम् न वेदाप्रामाण्यं कर्मकर्ट साधनवैगुण्यात् फलाभावोप पत्तेः कर्मणः क्रियायावैगुण्यमयथाविधित्वादि कर्त्त बैगुण्यमविद्वत्त्व दि साधनस्य हविरादे गुण्यममोक्षितत्वादि यथोक्त कर्मणः फलाभावे ह्यन्ट तत्वं न चैवमस्तीति भावः ॥ ५७ ॥
व्यघात परिहरति। न व्याघात इति शेषः अग्न्याधानकाले उदि. तहोमादिकमभ्यपत्य स्वीकृत्यानुदितहोमादिकरणे पर्बोक्नदोषकथनान्न व्याघातदूत्यर्थः ।। ५८ ॥
पौनरुत्यं परिहरति । च पुनरर्थे अन वादोपपत्तेः पुनर्न पौन - रुत्यं निष्प्रयोजनत्वे हि पौनरुत्य दोष उक्तस्थले त्वनुवादस्य उपपत्तेः प्रयोजनस्य सम्भवात् एकादशसामधेनीनां प्रथमोत्तमयोः विरभिधाने हि पञ्चदशत्व सम्भवति तथा च पञ्चदशत्वं यते इममहं माटव्यं पञ्चदशावरेण वाग्वज्वेण च बाधे योऽस्मान्दष्टि यञ्च वयं विश्व इति ॥ ५ ॥
अनुवादस्य सार्थकत्वं लोकसिवमित्याह । वाक्य विभागस्य अनुवादत्वेन विभक्त वाक्यस्यार्थग्रहणात् प्रयोजनस्वीकारात् शिष्टैरिति शेषः शिष्टा हि विधायकानुवाद कादिभेदेन वाक्यं विभज्यानुवादकस्यापि सप्रयोजनत्व मन्यन्ते वेदेऽप्येव मिति भावः ॥ ६ ॥
For Private And Personal