________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२३०
न्यायसूत्तौ ।
जातिद्दयं शब्दस्य लिङ्गविधया बोधकत्वाल्लिङ्गान्तरजज्ञान वह्निजातीय
त्वाभावात् ॥ ४८ ॥
हेत्वन्तरमाह । सम्बन्धान्नियतसम्बन्धात् ज्ञायमानादितिशेषः शब्दो हि व्याप्तिग्रहसापेचो बोधयति तेन शाब्दबोधोऽनुमितिरिति
भावः ॥ ४६ ॥
T
सिद्धान्तसूत्रम् । श्राप्तस्य वमादिशून्यस्य य उपदेशः शब्दस्तत्र यत्साम श्राकाङ्क्षायोग्यतादिमत्त्वं ततः अथवा आप्त प्राप्त यदुपदेशसामाकाङ्क्षादिमत्त्वं ततः तत्सहकारात्साधारणश्चायं निर्देशस्तेन व्याप्तिनिरपेचादाकाङ्क्षादिज्ञानादर्थे सम्प्रत्ययः शाब्दबोधः सम्भवतीति नानु - मानान्तर्भावः शब्दस्येत्यर्थः शब्दादमुमर्थं प्रत्येमि नत्वनुमिभोमीत्यनुभवादिति भावः ॥ ५० ॥
शब्दार्थयोः सम्बन्धाभाव इत्यप्याह । शब्देन सहार्थस्य मम्बन्धाभावः व्याप्तप्रभावः हेतुमाह पूरणेति, यदि शब्दस्यार्थेन व्याप्तिः स्यात्तदा न्नाग्निबासीशब्देर्मुखपूरणमुखप्रदाहमुखपाटनानि स्युः शब्दस्य व्याप्यस्य सत्ये - नान्नादेरर्थस्यापि सत्त्वात् ॥ ५२ ॥
:
तत्कि शब्दोऽसम्बद्धमेवार्थ प्रत्याययति तथा सत्यतिप्रसङ्ग इत्याशङ्कते । प्रतिषेधः शब्दार्थयोः सम्बन्धप्रतिषेधो न शब्दार्थयोर्व्यवस्थितत्वात्कविदेव हि शब्दः कञ्चिदेवार्थं बोधयति न सर्व्वः सर्व्वमिति द्रत्यञ्च सम्बन्धे खोलते तेन सम्बन्धेन व्याप्तिरप्यावश्यकी सच सम्बन्धो न मुखपूरणादिनियामक इति भावः ॥ ५३ ॥
उत्तरयति । मन्मतेऽपि शब्दार्थयोरव्यवस्था न शब्दाधीनस्यार्थ - संप्रत्ययस्य सामयिकत्वात् शक्तिग्रहाधीनत्वात् शक्तिरूपसम्बन्धेन न च व्याप्तिस्तस्यावृत्तिनियामकसम्बन्धाधीनत्वादिति भावः ॥ ५४ ॥
शब्दस्यार्थेन सह न स्वाभाविकः सम्बन्धः जातिविशेषेऽनियमात् शब्दस्यानियतार्थकत्व दर्शनादाय हि यवशब्दाद्दीर्घम्यूकविशेषं प्रतियन्ति म्लेच्छास्तु कङ्गमिति नियमे तु सर्वः सर्व्वं प्रतीयात् श्रापाततश्चेदं नानाशक्तावपि यत्र यस्य शक्तिग्रहस्तस्य तदर्थोपस्थितेः ॥ ५५ ॥ समाप्त शब्दमामान्यपरीज्ञाप्रकरणम् ॥ १८ ॥
For Private And Personal
·