________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायतत्तौ ।
२२८
मिति वदन्ति एवमन्यत्रापि व्यभिचारशङ्कासम्भवादव्यभिचारनिश्चयस्था नुमितिहेतोरेव दुर्लभत्वात्तत्प्रामाण्यं न सम्भवतीत्याशयः ॥ १५ ॥
||
समाधत्ते | अनुमानाप्रामाण्यं न युक्त एकदेशरोधजनदोहो स्वासजपिपीलिकाण्डसञ्चारा मयूररुतसदृशस्ताञ्च लिङ्गोभूतानां नदीह्यादीनां भिन्नत्वान्न दोषः न च सर्वत्र व्यभिचारशङ्का सत्याञ्च तस्यान्तर्केण तदपनयनान्न दोष इत्याशयः ॥ ३६ ॥ समाप्तमनुमानप्ररोक्षा प्रकरणम् ॥ १६ ॥ अनुमानस्य त्रिकालविषयत्वमभिमतं तन्न युक्त वर्त्तमानाभावेन तदधीनज्ञानयोरतीतानागतयोरभावेन कालत्रयात्मक विषयाभावादित्यागयेनवर्त्तमान परीक्षा प्रकरणमारभमाणो वर्त्तमानमाचिपते । वर्त्तमानाभावः अतीतानागतभिन्ने कालत्वाभावः व्युत्पादयति पतत इति पततः फलादेचावधिकः कश्चन देशः पतिताध्वा भूग्यवधिकः कश्चम पतितव्याध्वा न तु वर्त्तमानस्य प्रसङ्गोऽपीति भावः ॥ २७ ॥
समाधत्ते । वर्त्तमानाभावे व्योरतीतानागतयोरप्यभावः स्यात्तयो - स्तदपेक्षत्वात् वर्त्त मानध्वंसप्रतियोगित्वं ह्यतीतत्वं वर्त्तमान प्रागभावप्रतियोगित्वं ह्यनागतत्वमिति भावः ॥ ३८ ॥
ननु तयोः परस्परापेचयैव सिद्धेर्न वर्त्तमानापेक्षेत्यत ग्राह । ग्रन्योन्यायादिति भावः ॥ ३६ ॥
तयोरप्यभावे का चविरतो युक्तयन्तरमाह । वर्त्तमानाभावे प्रत्यक नोपपद्यते प्रत्यन्तस्य वत्तमानविषयत्वात् यतएवाह सम्बद्धं वर्त्तमानञ्च ग्टह्यते चच्चरादिनेति प्रत्ययाभावे च सर्वमेव ग्रहणं ज्ञानं न स्यात् प्रत्यक्ष मूलकत्वादितरज्ञानानामिति भावः ॥ ४० ॥
ननु यदि वर्त्तमानध्वंस प्रतियोगित्वमतीतत्वं वर्त्तमानप्रागभावप्रतियोगित्वञ्च भविष्यत्त्वं तदा व वर्त्तमान एव घटे कथं श्याम वासीद्रको भवि ष्यतीति धीरत ग्राह । वर्त्तमानस्यापि घटादेः श्यामरक्तरूपादीनां कृतता कर्त्तव्यतयोरतीतता भविष्यत्तयोरुपपत्तेर्घटादेरम्यतीतानागतत्वेन व्यव
हारः परम्परासम्बन्वादित्यर्थः ॥ ४१ ॥
समाप्तं वर्त्तमानपरीक्षाप्रकरणम्॥१७
यथावसरेण क्रमप्राप्तोपमानं परीचितुं पूर्वपच्चयति । प्रसिद्धसाधर्म्या
For Private And Personal