________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२०8
न्यायसूत्ररत्तौ।
दुःखानुषङ्गात् दुःखव्यवहारो गौण दूति अतएवाग्रिमसूत्रे तत्मदेन मुख्य दुःखपरामर्शः ॥ २१ ॥
अपवर्ग लक्षति । तस्य दुःखस्य अत्यन्त विमोक्षः वसमानाधिकरणदुःखासमानकालीनो ध्वसः तस्य च जन्मापायादेव सम्भव इन्याशयेन दुःखेन जन्मनात्यन्त विमुक्तिरपवर्ग इति भाष्य दुःखेन दुःखानुसङ्गिग त्यर्थः ॥१३॥
समाप्त प्रमेयलक्षण प्रकरणम् ॥
क्रमप्राप्तं संशयं लक्षयति | संशय इति लच्यनिर्देश: विमर्श इत्यत्र विशब्दोविरोधार्थः मृशिर्जानार्थः एकस्मिन् धर्मिणीति पूरणीयं तेन एकर्मिणि विरोधेन भावाभावप्रकारकं ज्ञानं संशयः तत्र कारणमुखेन विशेषलक्षणान्याह समानेत्यादि उपपत्तिर्ज्ञानं तथाच समानस्य विरुद्धवकोटिहयसाधारणधर्मस्य ज्ञानादित्यर्थः अनेकधर्मः असाधारणधर्मः तजजानादित्यर्थः तथा व साधारणधर्मवद्धर्मिज्ञानजन्याऽसाधारणधर्मवद्धर्मिज्ञानजन्यश्चेत्यर्थः, विप्रतिपत्तिविरुइकोटियोपस्यापकः शब्दस्तस्मादि. त्यर्थः यद्यपि शब्दस्य न संशायकत्वं तथापि शब्दात्कोटियोपस्थितौ मा. नमः संशय इति वदन्ति उपलब्धेचीनस्य अनुपलब्र्व्यतिरेकज्ञानस्य याsव्यवस्था सहिषयकत्वानिर्धारणं प्रामाण्य संशय इति फलितोऽर्थः, अन्ये तु उपलब्धयव्यबस्थाप्रामाण्यसंशयः अनुपलब्धि रुपलब्धिविरोधिधमत्वं तदव्यवस्था तत्संशय इत्याहुः । वस्तुतस्तु प्रामाण्यसंशयस्य न संशय हेतुत्व किं त्वग्टहीताप्रामाण्य कज्ञानस्य विरोधितया सति प्रामाण्यसंशये तज्ज्ञानस्थाविरोधितया साधारणधर्मदर्शनादित एव संशयोत्पत्तिरिति उपलब्धीत्यादिकं तादृशस्थले संशयोभवतीत्येतावन्मानपरं चकारोव्याप्यसंशयस्य व्यापकसंशयहेतृत्व समुच्चीनोतीति वदन्ति, विशेषापेक्षः कोटि. स्मरणसापेछः वस्तुतस्तु संशयधारावाहिकत्वं स्थादत प्राह विशेषेति विशेषं विशेषदर्शनं अपेक्षते निवर्तकत्वेन तथाच विशेषदर्शननिवर्त्य त्वकथनमुखेन विशेषादर्शनजन्य संशय इत्युक्तम् ॥ २३ ॥
For Private And Personal