________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१८६
न्यायसूत्रत्तौ।
हादस्य, जल्प स्थापि वादकार्यकारित्वादनन्तरं जल्पस्य,ततश्च विजयरूपैककार्यानुकूलतया वितण्डायाः कथात्रयस्थापि दूषणसापेक्षतयानन्तर दूषणेष निरूपणीयेषु वादे देशनीयत्वरूपोत्कर्षवत्त्वा तवदाभासमानत्वाचादौ हेत्वाभासानां, ततश्च हेत्वाभासोपजीवनेन छलस्य, स्वव्याघातकत्वेन अत्यन्तासत्तरत्वात्ततो जातेः कथावसानत्वेनार्थाद नन्तरं निग्रहस्थानानामिति, अत्र च प्रमेयान्तःपातिबुद्धिरूपस्यापि संशयादेर्निरनुयोज्यानुयोगरूपनिग्रहस्थानान्तःपातिनोश्छलजात्योश्च प्रकारभेदेन प्रतिपादनं शिष्यबुद्धिवेशद्यार्थमस्तु निग्रहस्थानान्तःपातिनां हेत्वाभासानां पृथगभिधान प्रयोजनन्त जानाति भगवानक्षपाद एव । भाष्ये तु वादे देश नीयतया हेत्वाभासानां पृथगुपन्यासइ त्यकम् अत्र वार्तिकं,यदि वादे देशन यत्वात् पृथगभिधानं तदा न्यूनाधिकापसिद्धान्तानां वादे देशनीयत्वात्पथग भि. धानं स्यात्,यदि टथगभिधानाबादे देशनीयत्वं तदा संशयादीनामपि वादे देशनीयत्व स्यात् । तसादान्वीक्षिकीत्रयीवार्तादण्ड नीतिरूपविद्याप्रस्थानभेदज्ञापनार्थ संशयादेर्हेत्वाभासस्य च पृथग्व चनमिति तदप्यमत नियहस्थानान्तर्गतत्वेनैव तनिरूपणेन प्रस्थानभेदसम्भवात् । वयन्तु हेत्वाभासानां न निग्रहस्थानत्व तथा सति सर्वत्र हेत्वाभाससत्त्वात् सर्वस्यैव निग्ट ही तत्त्वापत्तेः । तस्मात् हे स्वाभास प्रयोगो निग्रहस्थानं तद्विभाजकसूत्रस्थहेत्वाभास पदञ्च तत्प्रयोगपर, तत्र च प्रयोगस्य न लक्षणमपेक्षणीय अपि तु हेत्वाभासानामिन्यतउक्त हेत्वाभासाश्च यथोक्काइति चरमसूत्र,न च हेत्वाभासस्यावच्छेदकप्रवेशादेव पृथनिरूपणापेक्षेति वाच्य तथा सति प्रमाणतर्कसाधनोपालम्भइति वादाद्यवच्छेदकप्रमाणादेरपि पृथ. निरूपणापत्तेरिति युक्तमत्पश्यामः । अत्र केचित् सूत्रादौ मङ्गलाकरणेन मङ्गलं न प्रामाणिकमित्यत्र सूत्रकृतां तात्पर्य वर्णयन्ति, सदसत् कृतस्थाप्यनिबन्धनसम्भवात् विघ्नाभावनिर्णयेनाकरण सम्भवाच्च वयन्त प्रमाणं प्राण निलय इति भगवन्नामगणान्तःपातिप्रमाणशब्दस्योञ्चारणमेव मङ्गल. मिति ब्रूमः, अत्र च उद्देशल क्षणपरीक्षाणां पूर्वपूर्वसापेक्षतया प्रथममुद्देशोऽनन्तरं लक्षणं प्रसङ्गाच्छल परीछेति सोद्देशपदार्थ लक्षणछलपरीक्षा प्रथमाध्यावार्थः तत्र च सपरिकरन्यायलक्षणं प्रथमाणिवार्थः, तत्र
For Private And Personal