________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याये २ आह्निकम् । व्याहतत्वादहेतुः ॥ २७॥
यदि वद्या विवेचनं भावानाम्, न सर्वभावानां याथास्यानुपलब्धिः । अथ सर्वभावानां याथात्स्यानुपलब्धिर्न बुद्या विवेचनं भावानां याथात्स्यानुपलब्धिश्चेति व्याहन्यते, तदुलमवयवावयविप्रसङ्ग चैवमाप्रलयादिति ||
तदाश्रयत्वादस्थगग्रहणम् ॥२८॥
कार्य द्रव्यं कारणद्रव्यात्रितं तत् कारणेभ्यः पृथङ् नोपलभ्यते विपय्यये पृथग्रहणात्, यत्वाश्रयाश्रितभावो नास्ति तत्र पृथग्रहण मिति बुद्या विवेचनात तु भावानां पृथग्रहणमतीन्द्रिये ध्वणुष यदिन्द्रियेण ग्टह्यते त देतया बुद्या विविच्यमानमन्यदिति ॥ प्रमाणतचाऽर्थप्रतिपत्तेः ॥ २६ ॥
बुद्ध्या विवेचनाद्भावानां याथात्योपलब्धिः । यदस्ति यथा च तत् सर्वम्प्रमाणत उपलब्ध्या सिद्ध्यति । या च प्रमाणत उपलब्धिस्तद्दया विवेचनं भावानाम, तेन मर्यशास्त्राणि सर्व कर्माणि सर्वे च शरीरिणां व्यवहाराः व्याप्ताः । परीक्षमाणो हि बुद्ध्याध्यवस्थति इदमस्तीदं नास्तीति तत्र न सर्वभावानुपपत्तिः ॥
प्रमाणानुपपत्तापपत्तिभ्याम् ॥ ३०॥
एवञ्च सति सर्थनास्तीति नोपपद्यते, कस्मात प्रमाणानुपपत्त्य पप. त्तिभ्याम्, यदि सर्वनास्तीति प्रमाणमुपपद्यते सर्व नास्त. त्येत ह्याहन्यते । अथ प्र नाणं नोपपद्यते सर्व नास्तोत्यस्य कथं सिद्धिः, अथ प्रमाणमन्तरेण सिद्धिः, सर्व मस्तीत्यस्य कथं न सिद्धिः ॥ वनविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः ३१
यथा व ने न विषयाः सन्त्यथ चाभिमानो भवति, एवं न प्रमाणानि पमेयाणि च सन्ति, अथ च प्रमाणप्रमेयाभिमानो भवति ॥
For Private And Personal