________________
Shri Mahavir Jain Aradhana Kendra
१६३
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्याय दर्शनवात्स्यायनभाष्ये
न प्रलयोऽणुसद्भावात् ॥ १६ ॥
अवयवविभागमाश्रित्य वृत्तिप्रतिषेधादमात्रः प्रसज्य मानो निरवयवात् परमाण निवर्त्तते न सर्वप्रलयाय कल्पते । निरवयवत्वं तु खलु परमाणोविभागैरल्पतरसङ्गस्य यतो नाल्पीयस्तवावस्थानात् लोष्टस्य खल प्रविभज्यमानावयवस्याल्पतर मल्पतममुत्तरमुत्तरं भवति स चायमल्पतरमसङ्गः यस्मान्नाल्पतरमस्ति यः परमोऽल्पस्तत्र निवर्त्तते, यतश्च नाल्पीयोऽस्ति तं परमाणु ं प्रचक्ष्मह इति
परं वा चुटेः ॥ १७ ॥
व्यवयवविभागस्थानवस्थानाद्द् व्याणामसङ्गेयत्वात् बुद्धिनिवृत्तिरिति । च्यथेदानीमानुपलम्भकः सर्व नास्तीति मन्यमान ग्रह ||
आकाशव्यतिभेदात् तदनुपपत्तिः ॥ १८ ॥
तस्यागोर्निरवयवस्यानुपपत्तिः, कस्मात् श्राकाशव्यतिभेदात् । ग्रन्तर्बहिश्वाणुराकाश्शेन समाविष्टो व्यतिभिन्नः व्यतिभेदात् सावयवः, सावयवत्वादनित्य इति ||
आकाशा सर्वगतत्वं वा ॥ १६ ॥
अर्थतन्नष्यते परमाणोरन्तर्नास्त्याकाश मित्य सर्वगतत्वं प्रसज्यत इति ॥ अन्तर्बहिश्च कार्य्य द्रव्यस्य कारणान्तरवचना
"
दका तदभावः ॥ २० ॥
अन्तरिति पिहितं कारणान्तरैः कारणमुच्यते, वहिरिति च व्यवधायकमव्यवहितं कारणमेवोच्यते, तदेतत्कार्यद्रव्यस्य सम्भवति नाणोरकार्यत्वात कार्ये हि परमायावन्तर्वहिरित्यस्याभावः । यत्र चास्य भावोऽणुका तन परमाणुः यतो हि नाल्पतरमस्ति स परमाणुरिति ॥
For Private And Personal