________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याये २ क्रिकम् ।
सोमनाथोणितास्थिस्नायु शिरा कफपित्तोचारादिसंज्ञा, तामश्शुभसंज्ञेत्याचचते, तामस्य भावयतः कामरागः प्रहीयते, सत्ये च द्विविधे विषये काचित् संज्ञा भावनीया काचित् परिवर्जनीयेत्युपदिश्यते यथा 'विषसम्पृक्रेन' नसंज्ञोपादानाय विषसंज्ञा महाणायेति । अथेदानीमर्थं निराकरिष्यताऽवयव्युपपाद्यते ॥ विद्याऽविद्याद्वैविध्यात् संशयः ॥ ४ ॥
१५६
सदस्ntereम्भादिद्या विविधा, सदसतोरनुपलम्भादविद्यापि द्विविधा, उपलभ्यमानेऽवयविनि विद्याई विध्यात् संघयः, अनुपलभ्यमाने चाविद्याहं विध्योत् संशयः सोऽयमवयवी यद्युपलभ्यते अथापि नोपलभ्यते न कथञ्चन संशयात् मुच्यते इति ॥
तदसंशयः पूर्वहेतुप्रसिद्धत्वात् ॥ ५ ॥
तस्मिन्ननुपपन्नः संशयः, कस्मात् पूर्वोक्र हेतूनामप्रतिषेधादस्ति द्रव्यान्तरारम्भ इति #
वृत्त्यनुपपत्तेरपि तर्हि न संशयः ॥
६ 11 वृत्त्यनुपपतेरपि तर्हि संशयानुपपत्तिर्नास्त्यवयवीति तद्विभजते ॥
कृत्स्नैकदेशाष्टत्तित्वादवयवानामवयव्यभावः ॥७॥
एकैकोऽवयवो न तावत् कृत्स्नेऽवयविनि वर्त्तते तयोः परिमाणाभेदादवयवान्तरसम्बन्धाभावप्रसङ्गाच, नाप्यवयव्ये कदेशेन नास्यान्येऽवयवाः एकदेघभूताः । सन्तीति । अथावयवेष्वेवावयवी वर्त्तते ॥
1
1
तेषु चाटतेरवयव्यभावः ॥ ८ ॥
न तावत् प्रत्यवयवं वर्त्तते तयोः परिमाणभेदात् द्रव्यस्य चैकद्रव्यत्वप्रसङ्गात्, नाप्येकदेशैः सर्व्वेषु अन्यावयवाभावात्, तदेवं यक्तः संशयो नास्त्यवयवीति ॥
For Private And Personal
,