________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्यायनभाष्य ज्ञाय कस्यचिदेकत्वमुच्यते तत्र व्यपत्तोऽवयवः साधनभूतो नोपपद्यते एवं दैतादिष्वपीति । ते खल्लिमे सबैकान्ताः विशेषकारितस्थार्थ विस्तारस्य प्रत्याख्याने न वर्तन्न प्रत्यक्षातुमानागमविरोधान्मिथ्यावादा भवन्ति | अथाभ्यनुज्ञानेन वर्तन्ने समानधर्मकारितार्थ संग्रहो विशेषकारितश्चार्थ भेद इति एवमेकान्त त्वं जहतीति । ते खल्वेते तत्त्वज्ञान प्रविवेकार्थ मेकान्नाः परीक्षिता इति । प्रेत्यभावानन्तरं फलं तस्मिन् ॥
सद्यः कालान्तरे च फलनिष्पत्तेः संशयः ॥४४॥
पचति दोग्धीति सद्यः फलमोदन पयसी, कृषति वपतीति कालान्तरे फलं शस्साधिगम इति। अस्ति चेयं क्रिया अग्निहोत्र हुयात् रूगकाम इति, एतस्याः फले संशयः ॥
न सद्यः कालान्तरोपभोग्यत्वात् ॥ ४५ ॥
स्वर्गः फलं श्रूयते तच्च भिन्न कस्मिन् देहभेदाटुत्पद्यत इति, न सद्योयामादिकामानामारम्भफल मिति ||
कालान्तरेणानिष्पत्तिहेतुविनाशात् ॥ ४६॥
ध्वस्तायां प्रवृत्तौ प्रवृत्तेः फलं न कारणमन्तरेणोत्पत्तुमर्हति, न खल वै विनष्टात्कारणात् किञ्चिद्वत्पद्यतति ॥ प्रनिष्पत्ते क्षफलवत्तत् स्यात् ॥ ४७॥
यथा फलार्थिना वृक्षमूले सेकादिपरिकर्म क्रियते तस्मिंश्च मध्वस्ते टथिवीधातुरमातुना सङ्गहीतः प्रान्तरेण तेजसा पच्यमा नो रसद्रव्यं निवर्तयति स द्रव्यभ तो रसोक्षानुगतः पाकविशिष्टो व्यहविशेषेण सन्निविशमानः पर्णादिफलं निवर्तयति । एवं परिषेकादि कर्म चार्थवत् न च विनदान फलनिष्यत्तिः, तथा प्रवृत्त्या संस्कारो धर्माधर्मलक्षणो जन्यते स .
For Private And Personal