________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
. ४ अध्याये १ आह्निकम् । तत्वैराश्यं रागद्दे षमोहार्थान्तरभावात् ॥ ३॥ _तेषां दोषाणां बयोराशयस्त्रयः पक्षाः, रागपक्षाः कामो मत्सरः पहा तृष्णा लोभ इति, द्वेषपञ्चाः क्रोधः ईष्याऽसूया दोहोऽमर्ष इति, मोहपक्षाः मिथ्याज्ञानं विचिकित्मा मानः प्रमादः इति वैराण्यानोपसङ्ख्यायन्ते इति, लक्षणस्य तमुभेदात् वित्वमनुपपन्नम्, नानु पपन्न रागद्देषमोहानरभावात् आसक्तिलक्षणो रागः, अमर्षलक्षणो हे षः, मिथ्या. प्रतिपत्तिलक्षणो मोह इति, एतत् प्रत्यात्मवेदनीयं सर्वशरीरिणाम, विजानात्ययंशरीरी रागमुत्पत्रम्, अस्तिमेऽध्यात्म रागधर्म इति, विरागञ्च विजानाति नास्ति मेऽध्यात्म रागधर्म इति । एवमितरयोरपीति | मानेोऽस्याप्रमतयस्तु बैराश्यमनु पतिता इति नोपसङ्ख्यायन्ते ॥
नैकप्रत्यनौकभावात् ॥ ४॥
नार्थान्तरं रागादयः कस्मात् एकप्रत्यनीकभावात् तत्त्वज्ञानं सम्यमतिरार्यप्रज्ञा सम्बोध इत्ये कमिदं प्रत्यनीकं त्रयाणामिति ॥ व्यभिचारादहेतुः ॥५॥
एकप्रत्यनीकाः पृथिव्यां श्यामादयोऽग्निसंयोगेनैकेन, एकयोनयश्च पाकजा इति, मति चार्थान्तरभावे । तेषां मोहः पापीयान्नामूढस्थेतरोत्पत्तेः ॥ ६ ॥
मोहः पापः पापतरो वा वविभिप्रेत्य लम्, कस्मात् नाम ढस्थेतरोपत्तेः अमू ढस्य रागद्दे पौ नोत्पद्येते मढस्य तु यथासङ्कल्पमुत्पत्तिः, विषयेषु रञ्जनीयाः सङ्कल्पाः रागहेतवः, को पनीयाः सङ्कल्पा (पहेतवः, उभये च सङ्कल्या न मिय्याप्रतिपत्तिलक्षणत्वान्मोहादन्ये ताविमौ मोहयोनी रा. गहषाविति तत्वज्ञानाच्च मोहनिवृत्तौ रागद्देषानुत्पत्तिरित्येकप्रत्यनीकभावोपपत्तिः । एवञ्च कृत्वा तत्वज्ञानाद् दुःखजन्म प्रत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति व्याख्यातमिति ॥
For Private And Personal