________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये २ आह्निकम् ।
पुरुषाविषय लचयोपपत्रं विपरीतमिति, प्रशस्तलक्षणां निन्दितलचसमिति, पट्टिन्द्रियं दृद्दिन्द्रियमिति सूक्ष्मञ्च भेदोऽपरिमेयः । सोऽयं जन्मभेदः प्रत्यात्मनियतात् कर्मभेदादुपपद्यते सति कर्मभेदे प्रत्यात्मनियतात् कर्मभेदादुपपद्यते, वसति कर्मभेदे प्रत्यात्मनियते निरतिशयत्वादात्मनां समानत्वाञ्च पृथिव्यादीनां पृथिव्यादिगतस्य नियम हे तोरभावात् सर्व सर्वात्मनां प्रसज्येत नत्विदमित्यन्भूतं जन्म त स्नात् क निमित्ता शरीरोत्पत्तिरिति ॥
उपपन्नश्च तद्वियोगः कर्मक्षयोपपत्तेः ॥ ७२ ॥
कर्मनिमित्त े घरोरसर्गे तेन शरीरेणात्मनो वियोगः उपपन्नः, कस्मात् कर्मचयोपपत्तेः उपपद्यते खलु कर्मक्षयः सम्यग्दर्शनात् प्रचीणे मोहे वीतरागः पुनर्भवहेतुककायवाङ्मनोभिर्न करोति इत्युत्तरस्यानुपचयः पूर्वेपचितस्य विपाकप्रतिसंवेदनात् प्रञ्चयः । एवं प्रसवहे तोरभावात् पतिते ऽस्मिन् शरीरे पुनः शरीरान्तरानुपपत्तेरमतिसन्धिः कर्म्मनिमित्त े व शरीरसर्गे भूतच्चयानुपपत्तेस्तद्वियोगानुपपत्तिरिति ॥ तददृष्टकारितमितिचेत् पुनस्तत्प्रसङ्गोऽपवर्गे ॥७३
१३३
ब्रदर्शनं खलु ब्रदृष्टमित्युच्यते श्रष्टकारिता भूतेभ्यः शरीरोत्पत्तिः, न जात्वनुत्पत्रे शरोरे द्रष्टा निरायतनोदृश्यं पश्यति, तञ्चास्य दृश्यं विविश्रम् विषयश्च नानात्वच्चाव्यक्तात्मनोस्तदर्थः शरीरसर्गः तस्मिन्नवसिते चरितार्थानि भूतानि म शरीरमुत्पादयन्तीत्युपपन्नः शरीरवियोग इति । एवं चेन्मन्यसे पुनस्तत्प्रसङ्गोऽपवर्गे पुनः शरोरोत्पत्तिः प्रसज्यते इति, या चाहत्पत्रे शरीरे दर्शनानुत्पत्तिरदर्शनाभिमता या चापवर्गे शरोरनिवृत्ती दर्शनात्पत्तिरदर्शनभूता नैतयोरदर्शनयोः कचिद्विशेष इत्यदर्शनस्यानिवृत्ते रपवर्गे पुनः शरोरोत्पत्तिप्रसङ्ग इति । चरितार्था - विशेष इति चेत् ॥
१२
For Private And Personal