________________
Shri Mahavir Jain Aradhana Kendra
१०.
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्स्यायन भाष्ये
विषयं विद्यते येनायं मन्यत इति । एवं सति ज्ञातयत्मसंज्ञा न मृष्यते मनः संज्ञाऽभ्यनुज्ञायते मनसि च मनःसंज्ञा न मृष्यते मतिसाधनं त्वभ्यनुज्ञायते तदिदं संज्ञाभेदमानं नार्थे विवाद इति प्रत्याख्याने वा सर्वेन्द्रियविलोपप्रसङ्गः, ग्रथ मन्तुः सर्व्वविषयस्य मतिसाधनं सर्व्वविषयं प्रत्याख्यायते नास्तीति । एवं रूपादिविषयग्रहणसाधनान्यपि न सन्तीति सर्वेन्द्रिय. विलोप: प्रसज्यत इति ॥
नियमश्च निरनुमानः ॥ १८ ॥
योऽयं नियम इष्यते रूपादियहण साधनान्यस्य सन्ति मतिसाधनं सर्व्वविषयं नास्तीति, कायं निरनुमानो नावानुमानमस्ति येन नियम प्रतिपद्य मह इति । रूपादिभ्यश्च विषयान्तरं सुखादयस्तद् पल पलब्ध करणान्तरसद्भात्रः, यथा चक्षुषा गन्धो न ग्टह्यत इति करणान्तरं घ्राणम्, एवञ्चच्चु - प्रीणाभ्यां रखो न ग्टह्यत इति करणान्तरं रसनम् एवं शेषेषु तथा चतुरादिभिः खादयो न ग्टन्त इति करणान्तरेण भवितव्यम् तञ्च ज्ञानायौगपद्यलिङ्गम् । यच्च खाद्यपलब्ध करणं तच्च ज्ञानः यौगपद्य लिङ्गम् तस्येन्द्रियमिन्द्रियं प्रति सन्निधेरसन्निधेर्न युगपज्ज्ञानान्युत्पद्यन्ते तंत्र यदुक्तमात्मप्रतिपत्तिहेतुनां मनसि सम्भवादिति तदयुक्तम् किं पुनरथं देहादिसङ्घातादन्योनित्य उत्तानित्य इति कुतः संशयः उभयथा दृष्टत्वात् संशयः । विद्यमानमुभयथा भवति नित्यमनित्यञ्च प्रतिपादिते चात्मसङ्गावे संशयानिटतेरिति श्रात्मसङ्गावे हेतुभिरेवास्य प्रागदेहभेदादवस्थानं सिद्धम् ऊर्द्धमपि देहभेद दवतिष्ठते कुतः ॥
>
-
पूर्वाभ्यस्तस्मृत्यनुबन्धात् जातस्य ह जातस्य हर्षभयशोक
सम्प्रतिपत्तेः ॥ १८ ॥
जातः खल्वयं कुमारकोऽस्मिन् जन्मन्यग्टहीतेषु हर्षः यशोक हे तृषु हर्षयशोकान् प्रतिपद्यते लिङ्गानुमेयान् तेच स्मृत्यनुबन्धादुत्पद्यन्ते नान्यथा स्मृत्यनुबभ्वश्च पूर्वाभ्यासमन्तरेण न भवति पूर्वाभ्यासश्च पूर्वजन्मनि सृति नान्यथेति सिद्ध्यत्येतत् अवतिष्ठतेऽयमुद्धं शरीरभेदादिति ॥
For Private And Personal