SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। कन्या वीरवती चेति त्रयं गृहपरिच्छदः । सेवापरिच्छदश्चान्यत्त्रयं कव्यां कृपाणिका ॥ ५॥ करे करतलान्यत्र चारुचर्म परत्र च । तावन्मात्र परीवारो दीनारशतपश्चकम् ॥ ६॥ प्रत्यहं प्रार्थयामास राज्ञस्तमात्स्ववृत्तये । राजापि स तमाकाररुचिरोदारपौरुषम् । वीक्ष्य तस्मै ददौ वृत्तिं शूद्रकस्तां यथेप्सिताम् ॥ ७ ॥ अल्पे परिकरेऽप्यभिः कियद्भिः[३२ स्वर्णरूपकैः । किमेष व्यसनं पुष्णात्यथ कंचन सद्व्ययम् ॥ ८॥ इस्यन्वेष्टुं समाचारं कौतुकात्स महीपतिः। .. प्रच्छन्नान्स्थापयामास चारानस्य च पृष्टतः ॥९॥ स च प्रातर्नृपं दृष्ट्वा मध्याह्नं च धृतायुधः । सिंहद्वारे स्क्वृत्ति तामादायागारमाययौ ॥ १० ॥ शतं पत्न्यैच भुक्त्यर्थ वस्त्रतांबूलहेतवे । शतं स्नात्वा च पूजार्थे व्यदधाद्विष्णोः शिवस्य चः॥ ११ ॥ विप्रेभ्यः कृपणेभ्यश्च ददौ दानं शतद्वयं । एवं विभेजे पंचापि तानि नित्यं शतान्यसौ ॥ १२ ॥ श्रुत्वास्य वृत्तं तत्सोऽपि तुतोष हृदि शूद्रकः। सच कृत्वाहिकाचं तन्निश्येको द्वारि संदधत् ॥ १३ ॥ कृपाणी पुनरास्तस्थौ जागरैककृतक्षणः । तदीर्ध्यात इवोद्भूतविद्युत्करतलां दधत् ॥ १४ ॥ धारानिपाती निनदनाजगाम घनागमः ।। तत्परीक्षा समाधातुं निशीथे स च शूदकः ॥ १५ ॥ जगाद हर्म्यतः कोऽत्र सिंहद्वारे स्थितोऽत्र भोः। तस्याहं स्थितोऽत्रेति सोऽपि वीरवरोऽब्रवीत् ॥ १६ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy