SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ नीतिकल्पतरुः। श्मशान एव तत्प्रीत्या भर्ता तस्याः स बुध्यते । कृतं तदनुरूपं हि तेन गाढानुरागिणा ॥४४॥ निशम्य नृपतेस्तस्माद्धर्मार्थसहितं वचः । प्रीतो वेताल आह स्मोपदेशो गृह्यतामयम् ॥ ४५ ॥ प्रापय्य मामसौ वक्ति रह एनं निवेशय । देवतारूपिणं चैनं दण्डवत्प्रणतो भव ॥४६॥ तथा भवन्तं त्वां चासौ खड्गमाधाय दुष्टधीः । .ममोपहारं कुरुते तस्मादवहितो भव ॥ ४७ ॥ निशम्यैव त्वया राजन्नसौ वाच्यो मया नहि । दण्डवत्प्रणतिर्जातु कृता शिक्षय मामिति.॥ ४८ ॥ दण्डवत्प्रणतं चामुं खङ्गमादाय सुव्रत । शिरच्छेदेन चास्यैव मां तर्पय यथासुखम् ॥१९॥ न चात्र शङ्का कर्तव्या द्विजोऽसाविति नह्यसौ । द्विजः किंत्वातताय्येष तद्वधे नास्ति पातकम् ॥ ५० ॥ इति बुद्धिपरीक्षाभिधं कुसुमम् । [३१] धीराणां सत्त्वशोभैकसाराणां जगतीतले । किं नाप्यमथवा सर्वविशिष्टमतिशालिनाम् ॥ १ ॥ तथा च दृश्यतां भूयस्त्रिविक्रमकथानकम् । अस्ति शोभावती नाम सत्याख्या नगरी भुवि ॥ २ ॥ तस्यां च शूद्रकाख्योऽभूभृपतिः प्राज्यविक्रमः । तं कदाचिन्महीपालं प्रियशूरमुपाययौ ॥ ३ ॥ सेवार्थ मालवादेको नाम्ना वीरवरो द्विजः। तस्य धर्मवती नाम भार्या सत्यधरः सुतः ॥ ४ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy