SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० मीतिकल्पतरः। द्वितीयोऽस्थीन्युपादाय तस्या भागीरथीं ययौ । तृतीयस्तापसो भूत्वा भ्रान्तुं देशान्तराण्यगात् ॥१९॥ स भ्राम्यस्तापसः प्राप ग्रामं वक्रकलाभिधम् । तत्रातिथिः सन्कस्यापि विप्रस्य प्राविशद्गृहम् ॥२०॥ तत्पूजितः स यावच्च भोक्तुं तत्र प्रचक्रमे । तावदेकः शिशुस्तत्र प्रवृत्तोऽभूत्प्ररोदितुम् ॥२१॥ स सान्व्यमानोऽपि यदा न व्यरंसीत्तदा क्रुधा। बाहावादाय गृहिणी ज्वलत्यग्नौ तमाक्षिपत् ॥ २२ ॥ क्षिप्तमात्रः स मृद्वङ्गो भस्मीभावमवाप्तवान् । तदृष्टः जातरोमाञ्चः सोऽब्रवीत्तापसोऽतिथिः ॥ २३ ॥ हा धिक्कष्टं प्रविष्टोऽस्मि ब्रह्मराक्षसवेश्मनि । तन्मूर्त किरिमिदं न भोक्ष्येऽन्नमिहाधुना ॥ २४ ॥ एवं वदन्तं तं सोऽत्र गृहस्थः प्राह पश्य मे। शक्तिं पठितसिद्धस्य मन्त्रस्य मृतजीवनीम् ॥२५॥ इत्युक्त्वादाय तन्मन्त्रपुस्तिकामनुवाच्य च । तंत्र भस्मनि चिक्षेप स धूलिमनुमन्त्रिताम् ॥ २६॥ तेनोदत्ति[ ३१ अ]ष्ठत्तद्रूप एव जीवन्स बालकः । ततः स निवृतस्तत्र भुक्तवाविप्रतापसः ॥२७॥ गृहस्थोऽपि स तां नागदन्तेऽवस्थाप्य पुस्तिकाम् । भुक्त्वा च शयनं भेजे रात्रौ तत्रैव तद्युतः ॥२८॥ सुप्ते गृहपतौ तस्मिन्स्वैरमुत्थाय शङ्कितः। स प्रियाजीवितार्थी तां पुस्तिकां तापसोऽगृहीत् ॥२९॥ गृहीत्वैव च निर्गत्य ततो रात्रिंदिनं वजन् । क्रमात श्मशानं सत्प्राप यत्र दग्धाऽस्य सा प्रिया ॥ ३०॥ ददर्श चात्र तत्कालं तं द्वितीयमुपागतम् । योऽसौ गङ्गाम्भसि क्षेतुं तदस्थीनि गतोऽभवत् ॥३१॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy