SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। कृत्वा नयति तावत्स तं वृक्षं पुनराययौ । नायं नायं च स प्रीतः प्राह' तं मा श्रमं कुरु । उपहारमसौ कुर्यात्वां ममेति जगाद सः ॥ ८॥ प्रश्नमेनं यदि भवान्समर्थयसि तन्मया । हिताय ते त्रिलोक्याश्चोपदेशः क्रियते रहः ॥ ९ ॥ अस्त्याग्रहारः कालिन्दीकूले ब्रह्मस्थलाभिधः। अग्निस्वामीति तत्रासीहाह्मणो वेदपारगः ॥ १०॥ तस्यातिरूपा मन्दारवत्यजनि कन्यका । या निर्माय नवानर्घलावण्यान्नियतं विधिः । स्वर्गस्त्रीपूर्वनिर्माणं निजमेवाजुगुप्सत ॥ ११ ॥ तस्यां च यौवनस्थायामाययुः कान्यकुब्जतः । समसर्वगुणास्तत्र त्रयो ब्रा[३०बह्मण पुत्रकाः ॥ १२॥ तेषां चात्मार्थमेकैकस्तपितुस्तामयाचत । अनिच्छन्दानमन्यस्मै तस्याः प्राणव्ययादपि ॥ १३ ॥ तत्पिता स तु तन्मध्यान्नैकस्मायपि तां ददौ । भीतोऽन्ययोर्वधात्तेन तस्थौ कन्यैव सा ततः ॥१४॥ ते च त्रयोऽपि तद्वक्त्रचन्द्रकादृष्टसक्तयः। चकोरबतमालम्ब्य तत्रैवासीन्दिवानिशम् ॥ १५॥ अथाकस्मात्समुत्पन्नदाहज्वरेन सा। जगाम मन्दारवती कुमारी किल पञ्चताम् ॥ १६ ॥ ततश्च विप्रपुत्रास्ते परासुंशोकविक्लवाः । कृतप्रसाधनां नीत्वा श्मशाने चक्रुरग्निसात् ॥ १७ ॥ एकश्च तेषां तत्रैव विधाय मठिकां ततः। कृततद्भस्मशय्यः सन्नास्तायाचितभैक्षभुक् ॥ १८ ॥ 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy