________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
निदर्श्यते तथा चात्र मित्रद्वयकथा शुभा । बभूव चन्द्रपीडाख्यः कान्यकुब्जे महीपतिः ॥ ३ ॥ तस्याभवच्च धवलमुख्याख्यः कोऽपि सेवकः । बहिर्भुक्त्वा च परिवाच सदैव प्राविशद्गृहम् ॥ ४ ॥ भुक्तपीतः कुतो नित्यमायासीति च भार्यया । पृष्ठश्च जातु धवलमुखस्तामेवमभ्यधात् ॥ ५ ॥ सुहृत्पद वक्त्वा पीत्वा च भामिनि । सदैव यामि येनास्ति लोके मित्रद्वयं मम ॥ ६॥ कल्याणवर्त्मनामैको भोजनाद्युपकारकृत् । द्वितीयो वीरबाहुश्च प्राणैरप्युपकारकृत् ॥ ७ ॥ एवं श्रुखैव धवलमुखोऽसौ भार्यया तया । ऊचे मित्रद्वयं तन्मे भवता दर्श्यतामिति ॥ ८ ॥ ततो ययौ स तद्युक्तस्तस्य कल्याणवर्मणः । गृहं सोऽपि महार्हैस्तैरुपचारैरुपाचरत् । ९ ॥ अन्येद्युः स ययौ वीरबाहोर्भार्यायुतोऽन्तिकम् । स च द्यूतस्थितः कृत्वा स्वागतं तं विसृष्टवान् ॥ १० ॥ ततोऽब्रवीत्सा धवलमुखं भार्या सकौतुका । कल्याणवर्मा महतीमकरोत्सत्क्रियां तव ॥ ११ ॥ कृतं स्वागतमात्रं तु भवतो वीरबाहुना । तदार्यपुत्र तं मित्रं मन्यसेऽभ्यधिकं कथम् ॥ १२ ॥ तच्छ्रुत्वा सोऽब्रवीद्वच्छ मिथ्या तौ ब्रूयुभौ क्रमात् । स पूर्ववैरी सबलो निघ्नन्नेति मदादिति ॥ १३ ॥ sardaar वैसा तथैति तदैव तत् । कल्याणवर्मणेऽवोचदश्रुत्वा च जगाद ताम् ॥ १४ ॥ मवत्यहं वणिक्पुत्रो ब्रूहि तेऽस्य करोमि किम् । तेन सा प्रायाद्वीरबाहोरथान्तिकम् ॥ १५ ॥
इत्युक्ता
For Private and Personal Use Only