SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीसिकल्पतरः। यः शोचंश्चेतसागच्छेल्लिप्सेद्दाहादिकं च सः । अवष्टभ्य ततो लप्स्ये पापां तां कुलदूषिकाम् ॥ २२ ॥ इति राज्ञा समादिष्टा रक्षिणोऽत्र तथेति ते । रक्षन्तस्तस्थुरनिशं तत्कपरकलेवरम् ॥ २३ ॥ तत्सोऽन्विष्य घटो बुवा राजपुत्रीमुवाच ताम् । प्रियो बन्धुः सखा योऽभूत्परमः[२८ ब ]कर्परो मम ॥२४॥ यत्प्रसादान्मया प्राप्ता त्वं समुद्ररत्नसंचया'। स्नेहानण्यमकृत्वास्य नास्ति मे हृदि निवृतिः ॥ २५ ॥ तत्वं गत्वा न शोचामि प्रेक्षमाणः स्वयुक्तितः। क्रमाच संस्करोम्यग्नौ तीर्थेऽस्यास्थीनि च क्षिपे ॥ २६ ॥ भयं मा भूच तेनाऽहं सुबुद्धिः कर्परो यथा । इत्युक्त्वा तां तदैवाभत्स महाव्रतिवेशभृत् ॥ २७ ॥ स चाप्योदनमादाय कपरे कपरान्तिकम् । स क्षीब इव तत्राथ यत्तद्गायन्हसन्श्वसन् । मार्गागत इवोपागाच्चक्रेऽत्र स्खलितं वचः ॥ २८ ॥ निपाल्य हस्ताद्भक्त्वा च तत्समयं च कर्परम् । हा कर्परामृतभृतेत्यादि तत्तच्छुशोच सः ॥ २९ ॥ रक्षिणो मेनिरे तच्च भिन्नभाण्डानुशोचनम् । क्षणाच गृहमागत्य राजपुत्र्यै शशंस तत् ॥ ३०॥ अन्येधुश्च वधूवेशं भृत्यं कृत्यैकमग्रतः ।। अभ्युद्धतसधत्तूरभक्ष्यभारं च पृष्टतः ।। ३१ ॥ स तु स्वयं च ग्रामीणवेशो भूत्वा दिनात्यये । प्रस्खलन्निकटे तेषामगात्कर्पररक्षिणाम् ॥ ३२ ॥ कस्त्वं केयं च ते भ्रातः क यासीति च तत्र तैः । पृष्टः स धूर्तस्तानेवमुवाच स्खलिताक्षरम् ।। ३३ ॥ 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy